________________
977-AIRS
तथा व्रतानि-महाव्रतानि तान्येव कल्यो व्रतकल्पः । स च तत्त्वतोऽभेदेऽपि प्रथमचरमजिनतीर्थयोः पश्चमहाव्रतलक्षणः । शेषाणां तु चतुर्बलक्षणः । यतः-'नाऽपरिगृहीतानां स्त्रीणां परिभोगः सम्भवति' इति तद्विरतौ तासामपि विरतिरेवेति ऋजुप्रज्ञानां प्रज्ञा, न तु शेषाणां । परमयं द्वेषाऽपि स्वस्वतीर्थेषु स्थित एवाऽवगन्तव्यः ॥ इति व्रतकल्पः पष्टः॥
तथा ज्येष्ठ:-रत्नाऽधिकः । स एव कल्पो ज्येष्ठकल्पो-ज्येष्ठत्वव्यवहार इत्यर्थः । स च प्रथमपश्चिमजिनयतीनामुपस्थापनात एवाऽऽरभ्य, शेषाणां तु निरतिचारत्वात् प्रव्रज्यात एवेति ।
अथ पिता-पुत्रादीनां द्वयोर्युगपदुपस्थापने कथं ज्येष्ठताव्यवहारः?, इत्याह'पितिपुत्तमाइआणं समगं पत्ताण जिपितिपभिई। थेवंतरे विलंबो पनत्रणाए उबवणा' ॥ (पश्चा० ८२५) ।
व्याख्या-पितापुत्रादीनां-जनकसुतप्रभृतीनाम् आदिशब्दात् राजाऽमात्य-मातादुहितु-राश्यमात्यादिग्रहः। समकं-युगपत् प्राप्तानां-विवक्षिताऽध्ययनाऽधिगमेनोपस्थापनायोग्य नामवाप्तानां ज्येष्ठाः पितृ-प्रभृ. तयः स्युः। आदिशब्दात् राज-पातृ-राज्यादिग्रहः।
अथ पुत्रादिः प्राप्तो न पित्रादिः तदा को विधिः?, इत्याह-स्तोके-अल्पे अन्तरे-विशेषे दिनदयादितः पित्रादिरपि प्राप्स्यतीत्येवंरूपे विलम्ब:-प्रतीक्षणं कार्यम् । पित्रादौ प्राप्ते सति युगपदेव पितापुत्रादिरूपस्थापनीयः, माऽभूत् पुत्राद्यपेक्षया लघुताकरणेन पित्रादेरसमाध्युन्निष्क्रमणादिरिति ।
अथ वहन्तरं तदा को विधिः, इत्याह-प्रज्ञापनया-पित्रादिसम्बोधनया 'तव पुत्रो यदि विवक्षितां श्रियं IC
-
-
॥ ७॥
For Private & Personal use only