________________
श्रीकल्प
SARACTOR
किरणावली टीका व्या०१
का अथैते दोषा मध्यमजिनमुनीनामपि भवेयुः इति कथं तदग्राह्यता ?, इत्याह-'इअरेसिं न, अपमायाओ' त्ति ।
इनरेषां-मध्यमजिनमुनीनां न-नैव एते दोषा भवन्ति । कुतः? अप्रमादात् । यतः ते ऋजुप्रज्ञत्वाद् विशेषेणाऽप्रमादित्वेनोक्तदोषपरिहारपरायणाः। इतरे पुनः ऋजुजड-वक्रजडत्वेन न तथा ॥ इति राजपिण्डकल्पश्चतुर्थः॥
तथा कृतिकर्म-चन्दनकं । तद्विविधम्-अभ्युत्थानं वन्दनकदानं च । द्वितयमपि एतत् सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिना परस्परं विधेयं । साध्वीभिस्तु सर्वाभिरपि पुरुषोत्तमो धर्म इति कृत्वा सर्वे साधयोऽभिवन्दनीयाः। न पुन: पर्यायाद्यपेक्षणीयम् । यदुक्तं
वरिससयदिक्खिआए अज्जाए अज्नदिक्खि भो साह । अभिगमणवंदणनमंसणेण विणएण सो पुज्जो ॥ धम्मो पुरिसप्पभवो पुरिसवरदेसिओ पुरिसजेट्ठो। लोए वि पह पुरिसो किं पुण लोगुत्तमे धम्मे ॥ (उपदेशमाला गा०१५-१६)
स्त्रीवन्दने च बहवो दोषाः। तथाहि
'तुच्छत्तणेण गब्बो जायइ ण य संकते परिभवेणं । अन्नो वि होज्ज दोसो थिआसु माहुज्जहिज्जासु' ॥ त्ति । (बृहत्कल्प गा० ६४००-जीतकल्प० गा० २०८८) माधुर्यहार्यास्वित्यर्थः। योग्यस्य च यथार्ह वन्दनाऽकरणेऽह
कृते चैर्गोत्रकर्मणो बन्धः । 'नूनमेतत्प्रवचने विनयो नाऽभिधीयते' इति प्रवचनखिंसा। 'अविज्ञा वा एने लोकरूढिमपि नाऽनुवत्तयन्ति' इति निन्दाऽपि । ततश्च बोधिदुर्लभता संसारवृद्धिश्चेति दोषाः॥ कृतिकर्मकल्पः पञ्चमः ॥
A GAR
For Private & Personal use only
www.jainelibrary.org