________________
॥२७॥
'पितः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति मही-महच्चैत्यविभूषिताम् ॥१२२॥ पञ्चमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिजिनधर्मस्य भविष्यति निरन्तरम्' ॥१२३॥
तथा शत्रुञ्जयमाहात्म्येऽपि-'पञ्चमारकपर्यन्तम्' इत्यादि। एवं सर्व देशविसंवादि कुपाक्षिकबाहुल्यमपि यत् प्रवचनपीडाकारि तस्याऽपि प्रायोऽसम्भव एव भाव्यः। अन्यथा उदितोदितपूजाद्युपपादकसूत्राऽनुपपत्तिः स्यात् ।
ननु सत्यपि कुपाक्षिकबाहुल्ये सम्प्रतिवत् तदानीमपि पूजासत्कारो भवतु किं बाधकम् ? इति चेत् । उच्यते-यो हीदानीन्तनपूजासत्कारः स च भाविनः स्फीतपूजासत्कारस्य बीजभूतः। न पुनः स्वयं स्फीतः। यतः कुपाक्षिकबाहुल्ये सति आस्ताम् अन्यः सुमार्गपतितोऽपि प्रायो भूयान् जनः कुपक्षसुपक्षयोः तुल्यधिया प्रवर्त्तमानः पूजासत्कारं कुर्वन्नपि न द्वेषिमुद्रामतिकामति । यतः'सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते ।
माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः॥ (स्याद्वाद-मंजरी) इति श्रीहेमाचार्यकृतद्वात्रिंशिकायाम् । अतः तत्कृतः पूजासत्कारोऽपि अकिश्चित्कर एव । यस्तु अनन्यमनाः सुपक्षमेव | कशीकृत्य प्रवर्त्तते स च अल्पीयान् न स्वयं प्रभुश्चेति तत्कृतोऽपि पूजासत्कारो न स्फीतः इति बोध्यम् ॥१३०-१३१॥
['जं रयणिं च णं' इत्यादितः 'नो चक्खुकासं हव्वमागच्छंति' त्ति पर्यन्तम् ] तत्र-(ज रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे) < यस्यां रात्रौ श्रमणो भगवान्
AMESHES
॥२७१
Sain Educa
t ional
For Privale & Personal use only
Manorary.org