SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२६२॥ Jain Ed तत्र - ( तेणं कालेणं तेणं समरण) < तस्मिन् काले तस्मिन् समये (समणे भगवं महावीरे ) < श्रमणो भगवान् महावीरः ( अट्ठियगामं नीसाए पढमं अंतरावास वासावासं उबागए) त्ति अस्थिकग्रामनिश्रया प्रथमम् अन्तरवासं - वर्षारात्रं- वर्षासु वसनम् उपागतः । अन्तरावास इति वर्षारात्रस्य आख्या । उक्तं च- 'अंतरघणसामलो भयवं' ति वर्षा त्रघनश्यामल इत्यर्थः । (चंपं च पिट्ठिचपं च नीसाए तओ अंतरावासे वासावासं उवागए) चम्पां च पृष्ठचम्पां च निश्रया - अवलम्ब्य त्रयो वर्षारात्राः < वर्षासु वसनम् उपागतः > (वेसालि नगरिं वाणियगामं च नीसाए दुवालस अंतरावासे वासावास उवागए) एवं वैशाली वाणिज्यग्रामं च निश्वया द्वादश वर्षारात्राः <वर्षासु वसनम् उपागतः > (रायगिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए ) राजगृहाद् उत्तरस्यां दिशि नालन्दा > बाहिरिका - शाखापुरविशेषः तत्र निश्रया> चतुर्दश वर्षाौरात्राः वर्षासु वसनम् उपागतः > (छ मिहिलाए दो भद्दियाए) पट् मिथिलापुरि द्वौ भद्रिकापूर्या (एगं आलभियाए एवं सावस्थीए एगं पणियभूमीए) एकम् आलभिकायाम् एकं श्रावस्त्याम् एकं प्रणीतभूमौ वज्रभूम्याऽऽख्याऽनार्यदेशे इत्यर्थः । (एग पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए) एक अपश्चिमो वर्षारात्रो मध्यमाsपापायां हस्तिपालस्य राज्ञः > रज्जुका :- लेखकाः तेषां सभा - अपरिभुज्यमाना करणशाला- जीर्णशुल्कशाला तस्याम् इत्यर्थः । वर्षासु वसनम् < उपागतः > 'पश्चिम' शब्द: पर्यन्तवाची मङ्गलार्थं वा अपश्चिम इत्युक्तं । प्राक् किल तस्या नगर्या 'अपापा' इति नाम आसीत् देवैस्तु 'पापा' इत्युक्तं । यतः - भगवान् तत्र कालगतः । छद्मस्थकाले For Private & Personal Use Only emational किरणावली टीका व्या० ६ ॥२६२॥ helibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy