SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ॥२६१॥ ક ॥ इति एकादशः प्रभासः ( गणधर : ) || एवं जनमुखाच्छ्रुत्वा वेदार्थमखिला अपि । द्विजोत्तमाः परिव्रज्य सम्प्रापुः परमं पदम् ||१|| एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः । तत्र मुख्यानाम् एकादशानां त्रिपदीपूर्वकम् एकादशाऽङ्ग - चतुर्दशपूर्वरचना गणधर पदप्रतिष्ठा च । ते चैत्रम्-तत्र श्री गौतमस्वामिना निपद्यात्रयेण चतुर्दशपूर्वाणि गृहीतानि । 'प्रणिपत्य पृच्छा च निषद्योच्यते' | प्रणिपत्य पृच्छति गौतमस्वामी - ' कथय भगवन् किं तत्त्वम् ? ' । ततो भगवानाचष्टे - ' उपपन्ने इवा' । पुनस्तथैव पृष्टे - 'विग मे इवा' । पुनरप्येवं कृते वदति- 'धुवे इवा' । एषाः तिस्रो निपद्याः । आसामेव सकाशाद् - 'यत् सद् तद् उत्पादव्ययधौव्ययुक्तम् ' अन्यथा वस्तुनः सत्ताsयोगाद् इत्येवं तेषां गणभृतां प्रतीतिः भवति । ततश्च ते पूर्वभवभावितमतयो बीजबुद्धिवाद् द्वादशाङ्गसुपरचयन्ति । ततो भगवान् तेषां तदनुज्ञां करोति । शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति । ततः स्वामी रत्नमयसिंहासनाद् उत्थाय परिपूर्णां चूर्णमुष्टिं गृह्णाति । ततो गौतमस्वामिप्रमुखा एकादशाऽपि गणधराः इषदवनततनवः परिपाट्या तिष्ठन्ति । ततो देवाः सूर्यध्वनिगीतशब्दादिनिरोधं विधाय तूष्णीका: शुवन्ति । ततो भगवान् पूर्वं तावदेतद् भणति - ' गौतमस्य द्रव्यगुणपर्यायैः तीर्थमनुजानामि' इति चूर्णाश्च तन्मस्तके क्षिपति । ततो देवा अपि चूर्णपुष्पगन्धवर्षं तदुपरि कुर्वन्ति गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्य अनुजानाति || इति गणधरवादः ॥ १२१ ॥ [ 'ते णं कालेणं' इत्यादित: 'अपच्छिमं अंतरावासं वासवासं उवागए' त्ति पर्यन्तम् ] Jain Education International For Private & Personal Use Only ॥२६१॥ Intelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy