________________
श्रीकल्प
॥२५८॥
Jain Edu
'स्वप्न वे' इत्यादीनि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वाद् विपाककटुकत्वाच्च तद्आसक्तिनिवृत्तिपराणि न तु तदभावप्रतिपादकानि । 'पृथिवी देवता' इत्यादीनि तु तवाऽपि प्रतीतानि, इति चतुर्थो व्यक्तः ( गणधर : ) ।। किं मन्न जारिस इह भवंभि सो तारिसी परभवेपि । वेअपयाण ०' || ६१६ | (आ० नि०)
वेदपदानि च - ' पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि । तथा - 'शुगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि तद्वैसदृश्यप्रतिपादकानि । इति संशयनिदानम् । न खलु शालिवीजाद् गोधूमाक्रूरप्रसूतिः, कारणानुरूपस्यैव कार्यस्य दर्शनाद् इति युक्तिव । तत्र भगवानाह - पुरुषः खलु इह जन्मनि स्वभावेन मार्दवाऽऽर्जवादिगुणयुक्तो मनुष्यनामकर्म बद्ध्वा मृतः सन् पुरुपत्यमश्नुते न तु नियमतः । एवं पशवोऽपि । जीवगतिविशेषस्य कर्माssयत्तत्वात् । तथा-गोमयादिप्रभववृश्चिका दिकार्यवैस दृश्यमपीति । इति श्रीपञ्चमः सुधर्मागणधरः ॥
'किंमन्नि बंधमुख अस्थि नस्थि ति संसओ तुज्झ । वेअवयाण०' || ६२० || (अ० नि०)
वेदपदान- 'सएप विगुणो विभुर्न वध्यते संसरति वा न मुच्यते मोचयति, न वा एप बाह्यम् अभ्यन्तरं वा वेद' इत्यादि । तथा-'न ह वै सशरीरस्य प्रियाऽप्रिययोः अपहतिरस्ति, अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशत' इत्यादि । तत्र'स एप:' अधिकृतो जीवः । 'विगुणः' सत्च्वादिगुणरहितः । 'विभुः' - सर्वगतः 'न बध्यते' पुण्यपापाभ्यां न युज्यते । 'संसरति वा' इत्यत्र न इति अनुवर्त्तते । 'न मुच्यते' न कर्मणा वियुज्यते बन्धाऽभावात् । नाऽप्यन्यं ' मोचयति' अकर्तृकत्वात् । 'नवा एप बाह्यम् - आत्मभिन्नं महदहङ्कारादि । 'आभ्यन्तरं - स्वरूपमेत्र 'वेद' इति जानाति । प्रकृतिधर्मत्वाद्
nternational
For Private & Personal Use Only
किरणावली टीका
व्या० ६
।। २५८।।
library.org