SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावरु टीका व्या०६ ॥२५६॥ BAकाल अमरणभावस्य मोक्षस्य ईशानः-विभुः लुप्तचकारनिर्देशाद् यच्च अन्नेन-आहारेण अतिरोहति-अतिशयेन वृद्धिमुपैति । तथा यदेजति-चलति पश्वादि। यन्नेजति-न चलति पर्वतादि। यद्रे-मेर्वादि । 'यदु' अंतिके-यत्समीपे 'उ'शब्दः अवधारणे । तथा यदन्त:-मध्ये अस्य-चेतनाऽचेतनस्य सर्वस्य यदेवाऽस्य बाह्यं तत् सर्व पुरुष एव इति । अतः तदतिरिक्तस्यकर्मणः किल सत्ता दुःश्रद्धेया इति तब प्रतिभासते । तथा न प्रत्यक्षादिगोचरं कर्म । कथं वा अमूर्तस्य-आत्मनो मृतेन कर्मणा अनुग्रहोपघातावपि ?। न खलु नभसः चन्दनलकुटादिना तौ भवतः इति कर्माऽभावः। तदसम्यग्-यतः एतेषाम् अयम् अभिप्रायः। तथाहि-इह तावत्त्रिविधानि वेदपदानि । कानिचिद् विधिपराणि, कानिचित्तु अनुवादपराणि, कानिचिच्च अर्थवादपराणि । तत्र-अर्थवादोऽपि स्तुतिनिन्दाऽर्थवादभेदेन द्विधा। क्रमेण उदाहरणानि । यथा-'स्वर्गकामोऽग्निहोत्रं जुहुयाद्' इति । 'द्वादश मासाः संवत्सरः' इति । स सर्वविद् यस्यैष महिमा' इत्यादि । एप यः प्रथमो यज्ञः अग्निष्टोमः। 'यः अनेन अनिष्ट्वा अन्येन यजते स गर्तमभ्यपतद्' इत्यादि । तथा-'पुरुष एवेदम्' इत्यादीन्यपि पुरुषस्तुतिपराणि । यद्वा-जात्यादिमदत्यागाय अद्वतभावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि । नहि खलु अकर्मण आत्मनः कर्तत्वं युज्यते । 'एकान्तशुद्धतया प्रवृत्तिनिवन्धनाऽभावाद् गगनबद्' इति । तथा (तव)-आगमाऽनुमाने अपि'पुण्यः पुण्येन पापः पापेन कर्मणा' इति भवनोदरवर्ति सौभाग्य-भाग्यविरूपता दरिद्रतादिसमग्रमपि वस्तु अविकलकारणजन्य कार्यत्वाद् घटपटादिवद् इति । तथा-'अमूर्तस्याऽपि आत्मनो मूर्तकर्मकृतौ उपघाताऽनुग्रही अविरुद्धौ एव । विज्ञानस्य मदिरापानौषधादिभिः तद दर्शनात्' इत्येवं वेदाऽर्थ जिनमुखादाकर्ण्य अग्निभूतिरपि पञ्चशतच्छात्रैः सह SHRSHAAURA ॥२५६॥ Sain Educ ational For Private & Personal use only W H brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy