________________
भीकल्प
॥२५४॥
प्रेत्य' इत्युच्यते । न तत् सञ्ज्ञा अस्ति न परलोकसञ्ज्ञा अस्ति इतिभावः । एतेषां पदानामर्थः तव चेतसि विपरिवर्त्तते । तदयुक्तं यतोऽयमर्थः - ' विज्ञानघन एव' इति - ज्ञानोपयोग दर्शनोपयोगरूपं विज्ञानं ततोऽनन्यवाद् आत्मा-विज्ञानघनः प्रतिप्रदेश मनन्तविज्ञान पर्यायसङ्घात्मकत्वात् स एव एतेभ्यो भूतेभ्यः - क्षित्युदकादिभ्यः समुत्थाय - कथञ्चिदुत्पद्य इति घटविज्ञानपरिणतो हि आत्मा घटाद् भवति, तद्विज्ञानस्य सापेक्षत्वात् । अन्यथा निरालम्बनतया मिध्यात्वप्रसक्तेः । एवं सर्वत्र भाव्यं । पुनः - 'तान्येव' इत्यादि - तेषु भूतेषु व्यवहितेषु अपगतेषु वा आलाऽपि तद्विज्ञानघनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते । यदि वा सामान्यरूपतया अवतिष्ठते इति 'न प्रेत्यसज्ञाऽस्ति'- न प्राक्तनी घटादिसञ्ज्ञा अवतिष्ठते साम्प्रतविज्ञानोपयोगविधिनतत्वाद् इति जीवसत्ता ।
तथा - 'सवै अयम् आत्म ज्ञानमय' इत्यादि । 'ददद' - 'दमो दया दानम्' इति 'दकारत्रयं यो वेत्ति स जीवः " इत्यादिनाऽपि । तथा-'विद्यमानभोक्तुकमिदं शरीरं भोग्यत्वाद् ओदनादिवद्' इत्यादि अनुमानेनाऽपि । तथा -क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चन्द्रकान्ते सुधा यद्वत्, तथाऽऽत्माऽङ्गगतः पृथग् || अतोऽस्ति जीवः । “छिन्नंमि संसयम्मि जिणेण जरामरणविप्यमुक्केण । सो समणो पञ्चइओ पंचहिं सह खंडिअस एहिं " || ६०१ ॥ ( आ० नि० ) ततः 'उप्पज्जए वा विगमए वा धुवए वा' इति त्रिपदीमवाच्य द्वादशाङ्गीं स विहितवान् । इति प्रथमगणधरः ॥ 'तं च प्रव्रजितं श्रुत्वा दध्यौ तद्बान्धवोऽपरः । अपि जातु द्रवेदद्रिर्वले जलमपि क्वचित् ॥ १॥ मृगाङ्कमण्डलाज्जातु जायतेऽङ्गारवर्षणम् । वह्नेरपि भवेयुर्वा, ज्वालाः प्रालेयशीतलाः ॥२॥
Jain Edura International
For Private & Personal Use Only
किरणावली टीका
व्या० ६
॥२५४॥
nelibrary.org