________________
श्रीकल्प
किरणार टीका
॥२४८॥
HABAR
व्या०
जानाति-ज्ञानेन, पश्यति-दर्शनेन । न च पर्यायानित्येवोक्ते द्रव्यं न जानाति ? इति शङ्काऽवकाशः। उत्पादव्यययोः निराधारयोः अनुपपत्तेः । तयोः ज्ञानेन तदविष्वग्भावेन वर्तमानमन्वयि द्रव्यमपि ज्ञातमेव । अत एव आह-(सव्वलोए सव्यजीवाण आगई गई ठिइंचवणं उववाय) सर्वलोकवर्तिनां सर्वजीवानाम् आगति-यतः स्थानादागच्छति जीवा विवक्षितमास्पदं । गति-यत्र मृत्वा उत्पद्यन्ते । स्थिति-कायभवस्थितिभेदेन द्विविधामपि । च्यवनं-देवलोकात् मनुष्यतिर्यक्षु अवतरणम् । उपपातं-देवनारकाणां जन्म । तेषां जीवानामिदं (तकं मणो माणसियं) तत्कं-तदीयं मनः चित्तं मानसिकं-चित्तगतं चिन्तारूपापन्नपुद्गल जातं । यद्यपि मनो-मनोगतयोः नाऽस्ति वास्तवो भेदः तथापि व्यवहारनयानुसरणादस्त्येव भेदः । तथा च वकारो भवन्ति 'ममेदं मनसि वर्तते' इति । (भुतं कडं पडिसेवियं आवीकम्मं रहोकम्म) भुक्तम् अशनपुष्पादि । कृत-चौर्यादि । प्रतिसेवितं प्रतिषेवितं वा-मैथुनादि । आविष्कर्म-प्रकटकतं रहकर्म-प्रच्छन्नकृत 'जानाति पश्यति च' इति डमरुकमणिन्यायेनाऽत्राऽपि सम्बध्यते । (अरहा) [प्राग्वत् ] < अहन्- (अरहस्सभागी) अरहस्यभागी-न रहस्यम्-रकान्तं भजते । जघन्यतोऽपि कोटिसुरसेव्यत्वात् । (तं तं कालं मणवयकायजोगे वट्टमाणाणं सवलोए सम्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ) तत्र तत्र काले मनोवचनकाययोगे वर्तमानानां सर्वलोकानां सर्वजीवानां सर्व भावान्-गुगपर्यायान् । तत्र-सहभाविनः-ज्ञानादयो गुणाः, क्रमभाविनः हर्षादयः पर्यायाः, तान् । अकारप्रश्लेपात् सर्वाऽजीनां-धर्माऽसिमायादीनां पुद्गलाऽस्तिकायान्तानां सर्वभावान् सर्वविवाश्च जानन् पश्यश्च विहरति--आस्ते॥१२॥
तत्राऽऽदिश्य क्षणं धर्म, देवोद्योते जगद्गुरुः । लाभाऽभावान्मध्यमायां, महसेनवनेगमत् ॥१॥
॥२४८
Lain Educa
ional
For Private & Personal Use Only
naryong