________________
॥२४७॥
(सामाकास गाहावइस कट्टकरणंलि) त्ति श्यामाकाऽभिधानस्य गृहपतेः-कौटुम्बिकस्य क्षेत्रे-धान्योत्पत्तिस्थाने (सालपायवस्स अहे गोदोहियाए उक्कुडुयनिसिचाए) <सालवृक्षस्याऽधस्ताद गोदोहिकया उत्कुटुकाऽभिधानया निषद्यया> (आयावगाए आयावेमाणस्स) <आतापनया आतप्यमानस्य> (छट्टेणं भत्तण अपाणएणं हत्थुतराहिं नक्खत्तेणं जोगमुवागएणं) (पष्ठेन भक्तेन अपानकेन उत्तराफाल्गुनीनक्षत्रेण चन्द्रयोगमुपागते सति > (झाणंतरियाए वमाणस्स) शुक्लध्यानं चतुर्दा-'पृथक्त्ववितर्क सविचारम्' 'एकत्ववितर्कमविचारं' 'मूक्ष्मक्रियमप्रतिपाति' 'उच्छिन्न क्रियमनिवति ।' तेपाम् आद्यभेदद्वये ध्याते अग्रेतनभेदद्वयमप्रतिपन्नस्य केवलज्ञानमुत्पेदे इत्यर्थः। (अणंते अणुसरेनिवाघाए निरावरणे कसिणे पडिपुण्णे केवल वरनाणदंसणे समुप्पन्ने) [अनन्त इत्यादि पूर्वमिव व्याख्येयम् इति] <अनन्तं सोत्कृष्टं निर्व्याघातं निराबरणं कृत्स्नं प्रतिपूर्ण केवलं वरं ज्ञानं च दर्शनं च सर्वप्रकारैः उत्पन्नम्>॥१२॥
['तए णं . . . अरहा' इत्यादितः 'जाणमा पासमाणे विहरई' त्ति पर्यन्तम् ] तत्र-(तए णं समणे भगवं महावीरे) <ततः श्रमणो भगवान् महावीर:> (अरहा जाए) अईन्-अशोकादिमहापूजाऽहत्वान् ['अरिहा' इत्यादि क्वचित् तत्र अरीन्-रागादीन् हनि इत्या दे पूर्वमिव जात:-सम्पन्नः (जिणे केवली सव्वन्नू सव्वदरिसी) जिन:रागादिजेता । केवलानि-परिपूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि विद्यन्ते यस्याऽसौ केवली। अत एव सर्वज्ञ:-एकस्मिन् समये विशेषाऽवबोधवान् । सर्वदर्शो-द्वितीयसमये सामान्याऽवबोधवान् । (सदेवमणुआपुरस्स लोगस्स परियायं जाणइ पासइ) सदेवमनुजाऽसुरस्य लोकस्य पर्यायं जातावेकवचनम् इति पर्यायान् इति पर्यायान्-उत्पादव्ययलक्षणान्
सरकाब ल-%
॥२४७|
AR
Jain Educ
tional
For Privale & Personal use only
rary.org