________________
॥२४५॥
SECRECRRCRECOREGRAA
आर्जवेन-मायानिग्रहेण । माईवेन-माननिग्रहेण । लाघवेन-क्रियासु दक्षत्वेन । अथवा-लाघवं द्रव्यत:-अल्पोपधित्वं, भावतःगौरवत्रयत्यागः तेन। (अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए) <निरुपमया> क्षान्त्या-क्रोधनिग्रहेण । मुक्त्या-निर्लोभतया । गुप्त्या-मनोगुप्त्यादिकया। तुष्टया-मनःप्रहत्या। (अणुत्तरेण सच्चसंयमतवतुचरिअसोवचियफलनिव्वाणमग्गेणं) <निरुपमेन > सत्य-संयम-तपः-सुचरितसोपचित फलनिर्वाणमार्गेण । सत्यं सूनृतं संयमः-प्राणिदया तपः-द्वादशभेदं तेषां सुष्ठु-विधिवत् चरितम्-आचरणम् उपचयनम्-उपचितं सह उपचितेन-उपचयेन वर्तते सोपचितं । सत्यसंयमतपःसुचरितेन सोपचितं-स्फीतं फलं-मुक्ति रक्षणं यस्य स तथा । स चाऽसौ निर्वाणमार्गश्च-रत्नत्रयलक्षणः तेन । (अप्पाणं भावेमाणस्स) आत्मानं भावयतः। अनेन 'आत्मज्ञानमेव मोक्षस्य प्रधानं साधनम्' इत्युक्तम् । (दुवालससंवच्छराई वइकंताई) ति <द्वादशसंवत्सराः व्यतिक्रान्ता:> ।
द्वादशसंवत्सरव्यतिक्रमणं त्वेवम्नव किर चाउम्मासे छकिर दोमासिए उवासी य । बारस य मासि माइं बावत्तरि अद्धमासाई ॥२८॥ एग किर छम्मासं दो किर तेमासिए उवासो य । अड्डाइज्जाइ दुवे दो चेव दिवड्ढमासाई ॥५२९।। भई च महाभदं पडिमं ततो अ सव्वओभई । दो चत्तारि दसेव य दिवसे ठासीयमणुबद्धं ॥५३०॥ गोभरमभिग्गहजुभं खमणं छम्मासिभं च कासी अ । पंचदिवसेहिं ऊणं अव्वहिओवच्छ नयरीए ॥५३१॥ दस दोय किर महप्पा ठाइ मुणी एगराइभं पडिमं । अट्ठमभत्तेण जई इकिकं चरमराई अ॥५६२।
॥२४५॥
Jain Educa
For Privale & Personal use only
nelibrary.org