SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ।२३९॥ CHARACACAAAAEECH एवं चोपसर्गा गोपेनैव आरब्धा गोपेनैव परिनिष्ठिताः । एतेषां जघन्यादिविभागस्त्वेवम्-गधन्यं किल-कटपूतनाशीतं । मध्यमं च-कालचक्रम् । उत्कृष्टं च-श्रोत्रशल्योद्धरणं । 'तत्प्रक्षेप्ता गोपः सप्तमनरकाऽतिथिः, खरकसिद्धाथौं च स्वर्गमलचक्रतुः' इति । (ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ) एवं ये व्यावर्णिता देवाद्युपसर्गाः तान उत्पन्नान् सम्यक् सहते-भयाऽभावेन । क्षमते-क्रोधाऽभावेन । तितिक्षते-दैन्याद्यनवलम्बनेन । अध्यासयति-अविचलकायतया इति ॥११७॥ ['तए णं' इत्यादितः 'नो एवं भवई' त्तिपर्यन्तम् ] तत्र-यत एवं (तए णं समणे भगवं महावीरे अणगारे जाए) ततः अनगारो जातः श्रमणो भगवान् महावीरः। अनगारवप्रयोजकं च विशेषणकदम्बकम्- (इरियासमिए) [इत्पादि] ईर्यायां-गमनाऽऽगमनादौ समितः-सम्यक् प्रवृत्तः। (भासासमिए) भापायां-भाषणे समितः। (एसणासमिए) एपणायां-द्विचत्वारिंशदोपविशुद्धभिक्षाग्रहणे < समितः > (आयाणभंडमत्तनिक्खेवणासमिए) आदाने-ग्रहणे 'उपकरणस्य' इति गम्यं । भाण्डमात्रायाः-वस्त्राधुपकरणरूपपरिच्छदस्य । अथवा भाण्डस्य-वस्त्रादेः मृन्मयभाजनस्य वा । मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने यः समित:-सुप्रत्युषेक्षादिक्रमेण सम्यक् प्रवृत्तः स तथा । (उच्चारपासवणखेलसिंघाणजल्लपांरिट्ठावणियासमिए) उच्चार:-पुरीषं, प्रस्त्रवण मूत्रं, खेल:-निष्टिवनं, सिवान:-नासिकामल:, जल्ल:-शरीरमलः तेषां परिष्ठापना-त्यागः तत्र समितः-शुद्धस्थण्डिलाश्रयणात् । एतच्चाऽन्त्यं समितिद्वयं भगवतो भाण्ड-सिङ्घानाद्यसम्भवेऽपि नामाऽखण्डितार्थमित्थमुक्तं । 4GEOMAE% EMACARE | ॥२३९॥ Sain Ede r ational For Privale & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy