________________
श्रीकल्प
॥२३८॥
श्रेष्ठिनं स्वपितृतुल्यं समर्पयामास । शक्रः शतानी प्रत्युक्तवान्-'सङ्गोप्यैषा यावत् स्वामिनः केवलोत्पत्तिः। तदनन्तरं दकिरणावली सामिनः प्रथमशिष्याणि (शिष्या) भविष्यति' इति ।
टीका तत:-'सुमङ्गला' ग्रामे सनत्कुमारेन्द्रवन्दनं । 'बालक' ग्रामे 'वायल' वणिक यात्रायां गच्छन् स्वामिनं दृष्ट्वा अमङ्ग
व्या०६ लधिया असिना घाताय धावन् सिद्धार्थेन हतः । ततः स्वामी चम्पायां 'स्वातिदत्त' द्विजस्याऽग्निहोत्रशालायां वर्षावास तस्थौ । रात्रौ च 'पूर्णभद्र-माणिभद्रौ' यक्षेन्द्रौ स्वामिनः पर्युपास्तिं कुर्वाणौ विलोक्य विस्मितेन तेन-'को हि आत्मा ?' इति पृच्छा । सामिना च-'योऽहमिति मन्यते' इत्यादि जीवव्यवस्थापनं । पुनरपि पृच्छा-'किमुपदेशनम् ? । 'द्विधा-धार्मिकम् अधार्मिकं च' एवं 'मूलोत्तरगुण भेदात् प्रत्याख्यानमपि द्विधा' इति विप्रो बुद्धः । तत:-'जम्भिक.' ग्रामे 'शक्रो' नाट्यविधि दर्शयित्वा-'इयद्भिः दिनैः ज्ञानोत्पत्तिः' इत्य कथयत् । ततः-'मिण्डिक' ग्रामे 'चमरेन्द्र' प्रियपृच्छा । ततः-'षण्मानि' ग्रामे | स्वामिनो बहिः प्रतिमास्थस्य पार्श्वे गोपो गां मुक्त्वा ग्रामं प्रविष्टः । आगतश्च पृच्छति-'देवार्य ! क्य गवा गौः ?' मौने च रुष्टेन तेन स्वामिकर्णयोः कटशलाके तथा प्रक्षिप्ते यथा मिथो मिलिते । छिन्नाऽग्रत्वाद अदृश्येव । एतच्च कर्म शय्यापालककर्णयोः तप्तत्रपुःप्रक्षेपयता त्रिपृष्ठेन यदर्जितं तदुदीर्ण च वीरभवे । शय्यापालको भवं भ्रान्त्वा अयमेव गोपः । ततः-प्रभुः मध्यमापापायां गतः तत्र सिद्धार्थवणिग्गेहे भिक्षाऽर्थमागतं खरकवैद्यो विलोक्य स्वामिनं सशल्यं ज्ञातवान् । पश्चात् स वणिग उद्याने गत्वा सण्डासकाभ्यां गृहीत्वा वैद्यात् ते शलाके निर्गमयति स्म । तदाऽऽकर्षणे च वीरेण आराटिः तथा मुक्ता यथा | सकलमपि उद्यानं महाभैरवं वभूव । देवकुलमपि कारितं । स्वाम्यपि संरोहणौषधेन तदैव प्रगुणी भूतः ।
॥२३८॥
THERE REGGAE RESCERERAS
Jain Edube
Hndernational
For Private & Personal use only
Mainelibrary.org