SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ।२३७॥ ततः-'वैशाल्याम्' एकादशो वरात्रोऽभूत् । तत्र-भूतानन्दः, प्रियं पृच्छति । तत:-'मुंमुमारपुरे' गतः तत्र-चमरोत्पातः । ततः-'भोगपुरे' खजूरोसकण्टककम्बाभिः महेन्द्रक्षत्रियेण क्रियमाणा उपसर्गाः प्रियपृच्छार्थमागतेन 'सनत्कुमारेण' निवारिताः। ततः-'नन्दी'ग्रामे पितृसखा बन्दते । 'मिण्डिक'ग्रामे गोपोपसर्ग 'शको' वित्रासनेन निवारितवान् । ततः-कौशाम्ब्यां गतः । तत्र-'शतानीक' राजा 'मृगावती' देवी 'विजया' प्रतिहारी तथा-वादी' नामा धर्मपाठकः 'मुगुप्तः' अमात्यः तद्भार्या 'नन्दा' सा च श्राविका मृगावत्या वयस्या। स्वामिना तत्र पोषबहुलप्रतिपदि अभिग्रहो जगृहे । यथा-पृथ्वीनाथसुता, भुजिष्याचरिता, जंजीरता, मुण्डिता, क्षुत्क्षामा, रुदति, विघाय पदयोरन्तर्गतां देहली, कुल्माषान् , प्रहरद्वयव्यपगमे, सूर्पस्य कोणे स्थितान् दद्यात् तदा पारणकं भगवतः। सोऽयं महाऽभिग्रहः-'द्रव्यतः-कुल्माषान् सूर्पकोणेन । क्षेत्रतः-देहल्या एकं पदमारतः एकं च परतः कृत्वा। कालत:-निवृत्तेषु भिक्षाचरेषु । भावतः-राजसुता, दासत्वमापन्ना, निगडिता, मुण्डितमस्तका, रुदन्ती, अष्टमभक्तिका, चेद दास्यति तदा गृहीष्यामि । परीवहसहनार्थ स्वामिनोऽभिप्रहः । तन:-गोचर्या हिण्डन् पञ्चदिवसोनषण्मासोपवासी दैवयोगात् 'धनावह' श्रेष्ठिभार्या-'मूला' गृहस्थितया, चम्पेश 'दधिवाहन' नृप-धारिणी' राज्ञीसुतया 'वसुमत्या' 'चन्दनबाला' अपरनाम्न्या स्वामी प्रतिलाभितः। कविश्वात्र-चन्दना सा कथं नाम, 'बाले' ति प्रोच्यते बुधैः । मोक्षमादत्त कुल्माषै-महावीरं प्रतार्य या ॥१॥ ततः-पञ्चदिव्यानि । देवा ननृतुः, केशाः शिरसि सञ्जाता, निगडानि च नूपुराणि । देवैश्च चन्दनशीतलत्वात् 'चन्दना' इति तस्या नामाऽकारि। लोभाद् राजानं वसुधारां गृहानं शक्रो निवार्य प्राह-'यस्येयं दास्यति तस्यैषा' । ततः-सा धनावह ICCCCCEAECRACEAERO to | ॥२३७॥ Jain Educatie Alternational For Private & Personal use only B imlibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy