________________
श्रीकल्प
किरणाव टीका व्या०
॥२३६॥
भ्रष्टप्रतिज्ञो मन्दाक्ष-मन्दीभूताऽक्षिपङ्कनः । देवराजाऽधिष्ठितां तां, सुधर्मामाययौ सभाम् ॥३०८॥ युग्मम् । शक्रः सङ्गमकं दृष्ट्वा, सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः! सर्वेऽप्याकर्णयत मद्वचः ॥३०९॥ अयं हि कर्मचण्डालः पापः सङ्गमकाऽमरः । दृश्यमानोऽपि पापाय, तद्रष्टुं नैष युज्यते ॥३१०॥ बहनेनाऽपराद्धं हि, यः सामी नः कथितः। अस्मत्तोऽपि न कि भीतो, भवादु भीतो न यद्ययम् ॥३१॥ अर्हन्तो नाऽन्यसाहाय्यात् , तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नाऽमुं पापमशिक्षयम् ॥३१२।। अतः परमिह तिष्ठन्न-ऽस्माकमपि पाप्मने । निर्वासनीयस्तदसौ, कल्पादस्मात् सुराधमः ॥३१३।। इत्युक्त्वा तं वज्रपाणिः, वज्रेणेव शिलोच्चयम् । जघान बामपादेन, सुराधमममर्पणः ॥३१४॥ पर्यस्यमानो विविधा-ऽऽयुधैर्माधवतैमटैः । आक्रोश्यमानस्त्रिदश-स्त्रीभिर्मोटितपाणिभिः ॥३१५।। सामानिकैहस्थमानो 'यानकाऽऽख्य' विमानगः । स शिष्टैकाऽर्णवायुष्को मेरुचूलां सुरो ययौ ॥३१६॥ महिप्पः सङ्गम कस्य शक्रमेवं व्यजिज्ञपत् । सनाथमनुगच्छामः त्वदादेशो भवेद्यदि ॥३१७॥ अनुगन्तुं सङ्गमकं दीनाऽऽस्था अन्वरस्त ताः। आरयत् परीवार-मशेषमपि वासवः ॥३१८॥ (त्रिषष्टिः पर्व १० सर्ग ४)
तत:-'आलभिकायां हरिकान्तः' 'श्वेताम्बिकायां हरिस्सहश्च' प्रियं प्रष्टुमेतः। ततः-'श्रावस्त्यां शक्रः' स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् ततो महती महिमाप्रवृत्तिः । ततः-'कौशाम्ब्यां चन्द्रसूर्याऽवतरणं' वाणारस्यां च शक्रः' 'राजगृहे ईशान:' 'मिथिलायां जनको राजा धरगेन्द्रश्च' प्रियं पृच्छति स्म ।
DI||२३६
Jain Educat
i onal 101
For Privale & Personal use only
writrimary.org