SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ॥२३५॥ -%- प्रयोजनम् । तथाऽप्यक्षुब्धं देवाङ्गनानाटय-गीत-विलासादिभिः उपसर्गयति । एवमेकस्यां निशि विंशत्योपसर्गर्न मनागपि क्षोभमुपागमत् भगवान् । अत्र कविः'बलं जगद्ध्वंसनरक्षणक्षम, कृपा च किं सङ्गमके कृताऽऽगसि । इतीव सश्चिन्त्य विमुच्य मानसं, रुषैव रोषस्तव नाथ ! निर्ययौ ॥१॥ ततः-पण्मासाऽवधिकाऽनेषणीयाऽऽहारसम्पादनादि विचित्रोपसर्गान् तत्कृतान् सहमानो भगवान् निरशन एव । षण्मास्या 'स गतो भविष्यति' इति विचिन्त्य यावद् वनग्रामगोकुलं गोचर्यां प्रविष्टः। तत्राऽपि तस्कृतामनेषणामवगम्य अर्धहिण्डित एवाऽऽगत्य बहिः प्रतिमया स्थितः। स सुरोऽवधिना शुद्धपरिणाम स्वामिनं ज्ञात्वा द्वितीयदिने उपशान्तः स्वामिनं प्रति ब्रते-'हे आर्य ! वन विहारादौ, हिण्ड गोचर्यादौ, नाऽहं किश्चित्करोमि' इत्युक्ते :-'इच्छया बजामि न वा' इति । 'नाऽहं कस्याऽपि वक्तव्य' इति स्वामिना प्रत्युक्तः । ततः-विषण्णः सन् स्वामिनमभिवन्ध सौधर्म प्रति चचाल | स्वामी च तत्रैव गोकुले हिण्डन् वत्सपालिकया स्थविरया परमान्नेन प्रतिलाभितो वसुधारा च निपतिता । इतश्च कालं तावन्त, सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा, उद्विग्नाश्चाऽवतस्थिरे ॥३४॥ शक्रोऽपि मुक्त नेपथ्या-ऽङ्गरागोऽत्यन्तदुःखितः। सङ्गीतकादिविमुखो, मनस्येवमचिन्तयत् ॥३०५।। इयतामुपसर्गाणां, निमित्तम भवं ह्य हम् । मया स्वामिप्रशंसायां, कृतायां सोऽकुपत्सुरः ॥३०६।। अत्राऽन्तरे सङ्गमकः, पापपङ्कमलीमसः। प्रणष्टकान्तिप्राग्भारो-ऽम्भःस्पृष्ट इव दर्पणः ॥३०७॥ हलचल ॥२३५। Jain Educ a tional For Privale & Personal use only Halbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy