SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ -CA श्रीकल्प किरणावली टोका ॥२३४॥ व्या०६ षट्कात् अष्टाङ्गनिमित्तं च शिक्षितवान् । ततः अहङ्कारेण-'अहं जिनोऽस्मि' इति सर्वजने प्रख्यापयति स्म । तत:-'वाणिज' ग्रामे आतापनापुरसप्तरं षष्ठतपसा उत्पन्नाऽवधिः आनन्दः स्वामिनम् आलोक्य-'अहो परीषहसह' इति स्तुतिपरः-'अचिरेण ते केवलमुत्पत्स्यते' इत्यादि उक्तवान् । ततः-स्वामी श्रावस्त्यां दशमं वर्षाराचं चित्रं तपोऽकरोद् इत्यादि अनुक्रमेण यावत् स्वामी बहुम्लेच्छां दृढभूमिं गतः । तस्यां बहिः पेढालोद्याने पोलापचैत्ये अष्टमभक्तेन एकरात्रिकी प्रतिमां तस्थिवान् । इतश्च सभागतः शक्रः-'त्रैलोक्यजनाऽपि वीरचेतश्चालयितुम् असमर्था' इति प्रशंसां कृतवान् । तदनु शक्राऽमर्षेण सामानिक 'सङ्गमाऽऽख्य' सुरः सत्वरमागत्य प्रथमतो धूलिवृष्टिं चकार-यया पूर्णाऽक्षिकर्णादिश्रोताः स्वामी निरुच्छ्वासोऽभूत् । ततः वज्रतुण्ड पिपीलिकाभिः चालनीतुल्यश्चक्रेताश्च एकेन श्रोतसा निर्यान्ति द्वितीयेन प्रविशन्ति । तथा-वज्रतुण्डोदंशाः । तीक्ष्णतुण्डा घृतेल्लिकाः। वृश्चिकाः नकुलाः सर्पाः मूपकाश्च भक्षयन्ति । तथा-हस्तिनः हस्तिन्यश्च-शुण्डाघातचरणमर्दनादिना । पिशाच:-अट्टहासादिना । ज्याघ्रःदंष्ट्रानख विदारणादिना । सिद्धार्थ त्रिशले-करुणविलापादिना उपसर्गयनि । ततः स्कन्धावारसमीपस्थः प्रभोः पदोर्मध्येऽग्नि प्रयाल्य स्थालीमुपस्थाप्य च पचति । ततः चण्डाल:-तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति । ते च मुखैभक्षयन्ति । ततः-खरवातः पर्वतानपि कम्पयन् प्रभुमुक्षिप्य पातयति । तत:-कलिकावात:-चक्रवद् भ्रामयति । तत:भारसहस्र लोहमय चक्रेणाहतो भूमौ प्रभुः आजानुनिमग्नो येन मेरुचूलापि चूर्णीस्यात् । तत:-प्रभातं विकुळ रक्ति-'देवाय ! अद्यापि तिष्ठसि ?' स्वामी ज्ञानेन रात्रि वेत्ति । देवर्द्धि दर्शयित्वा च भणति-'वृणीत महर्षे ! येन तब स्वर्गेण मोक्षेण वा ॥२३४॥ Sain E ternational For Privale & Personal use only WHATbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy