SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ॥२३१॥ 'कलम्बुका' संनिवेशं गतः। तत्र मेघ-कालहस्तिनामानौ द्वौ भ्रातरौं । कालहस्तिना दृष्टया उपसर्गितः। मेधेनोपलक्ष्य क्षामितः। ततः-स्वामी क्लिष्टकर्म निर्जरानिमित्तं 'लाढा' विषयं प्राप। तत्र हीलनादयो घोराः उपसर्गाः अध्यासिताः । तत:'पूर्णकलशाऽऽख्ये' अनार्यग्रामे स्वामिनो गच्छतोऽन्तरा द्वौ स्ते नौ 'अपशकुन' इति विचिन्त्य असिमुत्पाटय धावितौ, ज्ञातवृत्तान्तेन वज्रिणा वज्रेण हतौ।। ततः-स्वामी 'भद्रिका' पुर्या वर्षासु चातुर्मास्यं तपश्च कृतवान् । ततो बहिः पारयित्वा विहरन् 'कदलीसमागम ' ग्राम गतः । तत्र मङ्खलिः दधिकूरभोजनं कुर्वन्नतृप्तो जनेन निर्भत्सितः, भगवतश्च प्रतिमा । ततः-स्वामी 'तम्बाल' ग्रामं गतः। तत्र पार्धाऽपत्यीयः बहुशिष्यपरिवृतः 'नन्दिषेण' नामाऽऽचार्यः प्रतिमास्थितः चौरभ्रान्त्या आरक्षकपुत्रेण भल्ल्या हतः। जाताऽवधिः स्वर्गमलश्चकार । शेषं च मङ्खलिबचनादि मुनिचन्द्रवत् । ततः-स्वामी 'कूपिक' संनिवेशं गतः । तत्र चारिकशङ्कया गृहीतो भगवान् पार्थाऽन्तेवासिनीभ्यां परिवाजिकीभूत-'विजया-प्रगल्भाभ्यां' मोचितः । स्वामिनः पृथगभूतश्च मङ्खलिः अन्यस्मिन् पथि गच्छन् पञ्चशतैरपि स्तेनैः गृहीत:-'मातुल' इति कृत्वा वाहनया खिन्नः। अचिन्तयद्-'वरं स्वामिनैव साई गमनम्' इति स्वामिनं मार्गयितुं लग्नः । स्वाम्यपि वैशाल्यां गत्वा अयस्कारशालायां प्रतिमया स्थितः। तत्रैकोऽयस्कारः पण्मासं यावद् रोगी भूत्वा अरोगः सन्नुपकरणकरः शालायामागतः । स्वामिनं निरीक्ष्य 'अमङ्गलम्' इति विचिन्त्य घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य तेनैव हतो मघवता । ततः- स्वामी 'ग्रामाक' संनिवेशं गतः । तत्रोद्याने 'विभेलक' यक्षो महिमा चक्रे । तत:-'शालिशीर्ष' ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे 'त्रिपृष्ठ' भवाऽपमानिताऽन्तःपुरी मृत्वा ॥२३॥ Sain Educ a tional For Privale & Personal Use Only m elibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy