SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प KORMP किरणावली टीका व्या०६ ततः-प्रभुः पृष्ठचम्पां प्राप्तः । तत्र-वर्णाश्चतुर्मासक्षपणेन अतिवाह्य बहिः पारयित्वा कयंगलसन्निवेशं गतः । तत्र 'दरिद्रस्थविरा' नाम पाखण्डस्थाः तत् पाटकमध्यस्थे देवकुले स्वामिनः प्रतिमास्थितस्य माघमासे हिमवर्षे निपतिते दरिद्रस्थविराः समहिलादिपरिग्रहा जागरदिने गायन्ति | दृष्ट्वा गोशालो जहास । पुनः पुनः तैः त्रिनिर्वासितः । पुनः स्वामिशिष्य इति कृत्वा मुक्तः। ततः-स्वामी श्रावस्त्यां गत्वा बहिः प्रतिमया स्थितः । तत्र सिद्धार्थोक्तमहामांसभोजनपरिहाराय गोशालो वणिग्गेहेषु भिक्षाऽर्थ भ्रमन् 'पितृदत्त' गृहपतिभार्यया निन्द्वा-मृताऽपत्यप्रस्वा 'श्रीभद्रया' 'शिवदत्त' नैमित्तकवाचा स्वाऽपत्यजीवनाय गर्भमांसमिश्रं पायसं भोजितः, अग्निभयाच्च अन्यतो गृहद्वारं चक्रे । आगतेन सिद्धार्थोक्ताऽप्रत्यये पायसवमने कृते नखवालादि दृष्ट्वा रुष्टेन तद्गृहं गवेषयताऽपि न दृष्टं । ततः-स्वामीतपसा पाटकोऽपि ज्वालितः । ततः-स्वामी बहिः 'हरिद्र' संनिवेशात् 'हरिद्र' वृक्षस्याऽघोऽवतस्थे प्रतिमया। पथिकप्रज्वालिताऽग्निना प्रभोः अनपसरणात् पादौ दग्धौ । गोशालस्तु नष्टः। ततः-स्वामी 'नंगला' ग्रामे वासुदेवगृहे प्रतिमया स्थितः । तत्र गोशालो डिम्भभापनाय अक्षिकर्षणमकार्षीत् । तत्पित्रादिभिः कुट्टितो 'मुनिपिशाच' इति उपेक्षितः । ततः-स्वामी 'आवर्त' ग्रामे | बलदेवगृहे प्रतिमया स्थितः । तत्र गोशालेन डिम्भभापनाय मुखत्रासो विहितः । तत्पित्रादीन्-'ग्रथिलोऽयं किमनेन हतेन ? अस्य स्वाम्येव हन्यते' इति विचिन्त्य स्वामिहननाय उद्यतान् दृष्ट्वा बलदेवमूर्तिरेव बाहुना लाङ्गलमुत्पाटथ उत्तस्थौ । ततः सर्वेऽपि स्वामिनं नतवन्तः। ततः-स्वामी 'चौराक' संनिवेशं जगाम । तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनः न्यग्भूय वेलां विलोकयति स्म । तत: चौरशङ्कया हतेन तेन रुष्टेन स्वामितपस्तेजसा मण्डपध्यापनाऽकारि । ततः-स्वामी %ARRESO ॥२३०॥ JainEHSI For Private & Personal Use Only H orary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy