________________
।२२९॥
SMARTIALA
अस्य गृहं दह्यताम्' इति । तदनु तद् गृहं ददाह ।
पश्चात् प्रभुः चम्पायामुपागतः। तत्र-द्विमासक्षपणेन वर्षावासम् अवसत् । चरमद्विमासपारणकं च चम्पाया बहिः कृत्वा कोलाकसन्निवेशं गतः स्थितश्च शून्यगृहे प्रतिमायां । गोशालेन तु तत्रैव 'सीहो' ग्रामणीपुत्रो 'विद्युन्मती' दास्या सह क्रोडन् हसितः कुट्टितश्च तेन । स्वामिनमाह-'अहमे काक्येव कुट्टितो यूयं किं न वारयत?' । सिद्धार्थः प्राह-'पुनमैवं कुर्याः'। ततः-स्वामी पात्रालके प्राप्तः तस्थिवांश्च शून्यागारे । ततः-'स्कन्दः स्वदास्या दत्तिलकया सममगात् । तत्रापि तथैवाऽभवत् । ततः-स्वामी कुमारकं सनिवेशं गत्वा चम्पारमणीयोद्याने प्रतिमयाऽस्थात् । इतश्च श्रीपार्थशिष्यो भूरितराऽन्ते वासिपरिवृतो 'मुनिचन्द्र' मुनिः, तत्रैव 'कूपनय' कुम्भकारशालायां तस्थौ । तत्साधुनिरीक्ष्य गोशालः प्राह- 'के यूयं ? तैरुक्तं-'निग्रन्थाः' । पुनः प्राह का यूयं क्व च मम धर्माचार्यः' तैरुचे-'यादृशस्त्वं तादृशस्त्वद् धर्माचार्योऽपि भविष्यति । ततःरुष्टेनोचे-'मे धर्माचार्यतपसा दह्यतां युष्मदाश्रयः' तैरप्यूवे-'नेयं भीतिरस्माकं' । पश्चात् स आगत्य स्वामिनः सर्वमुवाच । सिद्धार्थोऽवदत्-नैते साधवा दह्यन्ते । रात्रौ जिनकल्पतुलनां कुर्वाणो 'मुनिचन्द्रः प्रतिमास्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः । उत्पेदे च अवधिज्ञानं जगाम च स्वर्ग। ततः-महिमार्थमायाताऽमरकृतोद्योतमालोक्य-'उपाश्रयो दह्यते अमीषाम्' इति उवाच स्वामिनं गोशालः । सिद्धार्थेन यथावत् कथनेन तत्र गत्वा तच्छिप्यान्निर्भय॑ आयातः । ततः-स्वामी चौरायां गतः। तत्र-'चारिको हेरिको' इति कृत्वा आरक्षका अगडे प्रक्षिपन्तःप्रथमं गोशालः क्षिप्तः । प्रभुस्तु नाऽद्यापि । तावता तत्र-'सोमा-जयन्ती' नाम्न्यौ उत्पलभगिन्यौ संयमाऽक्षमतया परिवाजिकीभूते ज्ञात्वा तमुपसर्गमुपशामयतः।
IDIOSHOBHASHRSORRECIPE
.कि.२०
॥२२९॥
For Private & Personal use only
library.org