________________
श्रीकल्प
२४
किरणावरु टीका व्या०६
॥२२८॥
तेवि पडिगया। (आव० हारि० प. १९८ गाथा ४६९)
ततः स्वामी राजगृहे नालन्दायां तन्तुक (तन्त्वाक) शालैकदेशे अनुज्ञाप्य आद्यं मासक्षपणमुपसम्पद्य तस्थौ । तत्र गोशाल आगात् । तस्योत्पत्तिस्त्वेवम्
'मङ्खलि' नामा मङ्खः तस्य 'सुभद्रा' भार्या शरवणविषये गोबहुलद्विजस्य गोशालायां प्रसूत इति 'गोशाल' इति नाम । स च स्वामिनि कूरादिविपुलभोजनविधिना विजयेन प्रतिलाभिते दिव्यकुसुमादि पश्चदिव्यानि निरीक्ष्य 'त्वच्छिष्योऽस्मि' इति स्वामिनमाह । ततो द्वितीयपारणके पक्वान्नादिना 'नन्दः । तृतीये सर्वकामगुणितपरमान्नादिना 'सुनन्द: स्वामिनं प्रतिलाभितवान् ।
तत:-चतुर्थमासक्षपणके कोल्लाकसग्निवेशं स्वामी प्राप्तः। तत्र 'बहुल' नामा द्विजः पायसं दत्तवान् दिव्यानि च । गोशालस्तु तन्त्वाकशालायां स्वामिनमनुपलभ्य अन्तः बहिश्च राजगृहे गवेषयन् स्त्रोपकरणं द्विजेभ्यो दत्त्वा समुखं शिरो मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा-'त्वत् प्रव्रज्याऽस्तु मम' इति उक्तवान् । ततः स्वामी सगोशाल: 'सुवर्णखल ग्राम याति । अन्तरा च गोपैः महास्थाल्यां पायसं पच्यमानमालोक्य गोशालः स्वामिनं जगाद-'मा गम्यतां भुज्यतेऽत्र' । सिद्धार्थेन च तदभङ्गकथने गोपैः प्रयत्नरक्षिताऽपि पायसस्थाली भग्ना । ततो गोशालेन-'यद् भाव्यं तद् भवत्येव' इति नियतिः स्वीकृता । ततः स्वामी 'ब्राह्मण' ग्राममगात् । तत्र 'नन्दोपनन्द' भ्रातृसम्बन्धिनौ द्वौ पाटकौ । स्वामी नन्दपाटके प्रविष्टः प्रतिलाभितश्च नन्देन । गोशालस्तु उपनन्दगृहे पर्युषिताऽन्नदानाद् रुष्टः-'यद्यस्ति मे धर्माचार्यस्य तपस्तेजः तदा
SALAAAAAAAADARA
D॥२२८
Sain Educa
t
ional
For Private & Personal use only
wimchalcrary.org