SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ॥२२५॥ परिसाए धम्म पण्णवेहिसि ति। दामदुगं पुण न याणामि । सामी भणति हे उप्पल ! जण्णं तुमं न याणसि तण्णं अहं दुविहं-सागाराणगारिश्र धम्म पण्णवेहामि त्ति । ततो उप्पलो वंदित्ता गतो । तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो । (भाव. हारि० टीकातः नि. गा. ४६३) तत:-स्वामी मोराकसन्निवेशं गतः । तत्र प्रतिमास्थितस्य वीरस्य सत्काराद्यर्थ सिद्धार्थों जनानामतीतादीनि कथयति । स्वामिमहिमानं च दृष्ट्वा प्रद्विष्टेनाऽच्छन्दकेन तृणच्छेदाऽच्छेदविषये प्रश्ने कृते, सिद्धार्थेन-'न छेत्स्यते' इत्युक्ते छेदनोद्यतस्य तस्याऽङ्गुलीः शक्रः चिच्छेद । ततो-रुष्टः सिद्धार्थों जनान् प्रति-'चौरोऽयं' इति उक्तवान् , यतः कर्मकरस्य वीरघोषस्य दशपलिकं वट्टलकं गृहीत्वा खजूरीवृक्षाऽधः स्थापितम्' एकं तावदिदम् । द्वितीयम्-'इन्द्रशर्मण उरणकोऽनेन भक्षितः तदा स्थीनि अद्यापि बदर्या अधो दक्षिणोत्कुरुडिकायां तिष्ठन्ति' । तृतीयं पुनरवाच्यम् । अलं कथनेन । निर्बन्धे कृते-बजत अस्य भार्या कथयिष्यति नाऽहं कथयिष्यामि' इत्युक्ते तैः पृष्टा सा उवाच-'भगिनीपतिरयं लज्जितो विलक्षः। स्वामिनं विजने गत्वा आह-'स्वामिन् ! अहमत्रैव जीवामि । त्वं तु पूज्यः सर्वत्रापि पूज्यसे। ततः स्वामी श्वेताम्ब्यां विहरन् जनैः वार्यमाणोऽपि कनकखलाऽऽख्यतापसाश्रमे चण्डकौशिकसर्पप्रतिबोधायाऽगात् । स हि प्राग्भवे क्षपकः। क्षुल्लकेन आवश्यके पारणाऽर्थगमनजातमण्डूकीविराधनाऽऽलोचनार्थ स्मारितः। क्रुधा क्षुल्लकं हन्तुं धावन् स्तम्भे आस्फल्य मृतो ज्योतिष्केयूत्पन्नः। ततश्च्युतः तत्र आश्रमे पञ्चशततापसाधिपतिः चण्डकौशिको बभूव । तत्राऽपि राजन्यान् स्वाश्रमफलादिगृहानान् वीक्ष्य परशुहस्तो धावन्नवटे पतितः। परशुविद्धः तत्रैव 'चण्डकोशिक' इति । AAAAAAAAAA ॥२२५॥ Jain Educ a tional For Privale & Personal use only L wimmjainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy