________________
॥२१९॥
HSSASS
कृतवान् । तदा च-चेलोरक्षेपः, गन्धोदकपुष्पवृष्टिः, दुन्दुभिनादः, व्योम्नि 'अहो दानम्' इति घोषणा, वसुधारावृष्टिश्च' इति पञ्चदिव्यानि प्रादुर्भूतानि ।
"अद्धतेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्ध तेरसलक्खा जहनिआ होइ वसुधारा ॥३३२॥ (आ. नि०) विहरन्नथ मोराक-सन्निवेशे प्रभुर्ययौ । प्राज्यदुइज्जन्तकाऽऽख्य-तापसाश्रमशालिनि ॥१॥ पितुर्मित्रं कुलपति-स्तत्र प्रभुमुपस्थितः । पूर्वाऽभ्यासात् स्वामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥२॥ तस्य प्रार्थनया सामी, तत्रैको रात्रिमाविशत् । स्पेयं वर्षास्वित्यूचे, प्रस्थितं; सः पुनः प्रभुः ॥३॥ नीरागोऽप्युपरोधेन, प्रतिशत्याऽन्यतो ययौ । अष्टौ मासान् बिहत्याऽथ, तत्र वर्षाऽर्थमागमत् ॥४॥ कुलपत्यर्षिते वर्षा, तस्थौ स्वामी तृणौकसि । गावो बहिः तृणाऽनाऽऽप्त्या, वर्षाऽऽरम्भे क्षुधाऽऽतुराः ॥५॥ अधावन् खादितुं वेगात् तापसानां तृणोटजान् । निष्कपास्तापसास्तास्ते-ऽताडपम् यष्टिभिर्भृशम् ॥६॥ ताडितास्तैश्वखादुस्ताः, श्रीवीराऽलङ्कृतोटजम् । स्थितः प्रतिमया स्वामी, नाऽश्नतीस्ता न्यषेधयत् ॥७॥ उटजस्वामिना रावाः, चक्रे कुलपतेः पुरः । प्रभुं सोऽप्यशिपन्नीडं, रक्षन्ति न वयोऽपि किम् ? ॥८॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्स्येति प्रभुः पञ्चा-ऽभिग्रहानग्रहीदिमान् ॥९॥ माऽप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा । न गेहिबिनयः कार्यों, मौनं पाणौ च भोजनम् ॥१०॥ शुचिराकाचतुर्मास्या-अद्धमासादनन्तरम् । प्रावृष्यथाऽस्थिकग्राम, जगाम त्रिजगद्गुरुः ॥११॥
-52397
॥२१९॥
Jain Education
national
For Privale & Personal Use Only
morary.org