________________
पीकल्पइह हि तावच्चतुर्मासकमासीना मुनयो मङ्गलनिमित्तं कल्पद्रकल्पं पर्युषणाकल्पाऽभिधमध्ययनं पश्न दिनानि वाचयन्ति ।।४किरणावली
टीका ॥५|| तत्र कल्प:-साध्वाऽऽचारः । स च दशधा । तद्यथा
व्या०१ 'आचेलक्कुद्देसिय-सिज्जायर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिकमणे मासं पन्जोसवणकप्पो ॥१॥ (पञ्चाशके गा. ८००) [वृहत्कल्प० ६३६४ निशीथ० ५९३३ पञ्चकल्प० १२७१ जीतकल्प० २०४२]
व्याख्या-अविद्यमानं चेलं-वस्त्रं यस्याऽसौ अचेलकस्तदभाव आचेलक्यम् । तच्च तीर्थकरानाश्रित्य चतुर्विंशतेरपि । तेषां देवेन्द्रोपनीतदेवदृष्याऽपगमे तदभावत्वमेव । साधूनाश्रित्य तु प्रथमाऽन्तिमतीर्थकृत्तीर्थे श्वेतमानायुपेतवस्त्राणां जीर्णप्रायत्वात् तादृग्वस्त्रधारित्वेऽप्यचेला एवोच्यन्ते वाचंयमाः। न चैतदयुक्तं, तथाविधविशिष्टनेपथ्याऽभावादचेलकत्वव्यवहारस्य सार्वजनीनत्वात् । नत्रः कुत्सार्थत्वेऽपि युक्तियुक्तत्वाच्च । यदाह
'जह जलमवगाहतो बहुचेलो वि सिरवेढिअकडिल्लो। भण्णइ नरो अचेलो तह मुणो संतचेला वि ॥१॥
तह थोवजुण्णकुच्छिअ-चेलेहि वि भण्णइ अचेलोत्ति । जह तूरसालि! लहु देसु पोति नग्गिा मो ति॥२॥ (विशेषाव. २६०१-२) अजितादिद्वाविंशतितीर्थकृत्तीर्थसाधूनां तु ऋजुप्रज्ञत्वान्महामूल्याऽनियतवर्णाऽऽद्युपेतवस्त्रपरिभोगाऽनुज्ञानात् १ दुविहा एत्थ अचेला संतासतेसु होइ विष्णेया । तित्थगर संतचेला संताऽचेला भवे सेसा ॥ टीका :-द्विविधा-द्विप्रकाराः । अत्राऽऽचेलक्यविचारे अचेला-निर्वासस: सदसत्सु-विद्यमानाऽविद्यमानेषु । चेलेब्विति गम्यं । भवन्ति-स्युः विज्ञेया-ज्ञातम्या । तत्र तीर्थकरा-जिनाः असच्चेला सन्तो अचेला भवन्ति; शक्रोपनीनदेवदूष्याऽपगमाऽनन्तर । तथा सद्भिर्वस्त्रैरचेलाः सन्तोऽचेला भवेयुः-स्युः शेषा-जिनेभ्योऽन्ये साधवः ।। पञ्चा०८०५ ।। -पंचकप्पभास गा. १२७५ जीतकल्प० गा. २०४८ बृहत्कल्प ६३६५ निशीथ० ५९३४.
ABPEECISISA
Jain Education International
For Private & Personal use only
www.jainelibrary.org