________________
॥२०९॥
तथा-भगवति शिविकाऽऽरूढे प्रवज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयानि अष्टौ मङ्गलानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः श्रीवत्सः नन्द्यावतः वर्धमानकं भद्रासनं कलशः मत्स्ययुग्मं दर्पणश्च । ततः क्रमेण-पूर्णकलशभृङ्गारचामराणि, ततः-महती वैजयन्ती, ततः-वैडूर्यदण्डस्थं विमलातपत्रं, ततः-मणिकनकमयं सपादपीठं सिंहासन, तत:-अष्टशतमारोहरहितं वरतुरगाणां, ततः-अष्टशतं वरकुञ्जराणां, ततः-अष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणाम् अनेकप्रहरणाऽऽवरणसम्भृतानां रथानां, ततः-अष्टशतं वरपुरुषाणां, तत:-हयाऽनीकं, तत:-गजाऽनीकं, तत:-रथाऽनीकं, ततः-पदात्यनीकं, ततः-लघुपताकासहस्रमण्डितो योजनसहस्रोच्छ्यो महेन्द्रध्वजः, ततः-खड्गग्राहाः कुन्तग्राहाः पीठफलकग्राहाः, तत:-हासकारका नर्मकारकाच, ततः-कान्दर्पिकाः 'जय जय' शब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्राः भोगाः राजन्याः क्षत्रियाः तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवा देव्यश्च सामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः सम्प्रस्थिताः। तदनन्तरम्--(सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे) सदेवमनुजाऽसुरया-स्वर्गमर्त्यपातालवासिन्या पर्षदा-जनसमुदायेन समनुगम्यमानम्-अनुव्रज्यमानं भगवन्तम् अग्रे-अग्रतश्च (संखिअचकिअ-लंगुलिय-मुहमंगलिय-वद्वमाण-पूसमाण-घंटियगणेहिं)त्ति शासिकाद्यैः परिवृतं । तत्र-शानिका:-चन्दनगर्भशङ्कहस्ताः मङ्गलकारिणः शङ्कवादका वा, चाक्रिका:-चक्रप्रहरणाः कुम्भकारतैलिकादयो वा, लाङ्गलिका-गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्ट विशेषाः कर्षका वा, मुखमाङ्गलिकाः-मुखे मङ्गलं येषां ते चाटुकारिण इत्यर्थः, वर्धमानाः-स्कन्धाऽऽरोपितपुरुषाः, पुष्यमाणा-मागधा मान्या वा, घण्टया चरन्ति इति घाण्टिका 'राउलिया' इति रूढाः
HEREHRESHARIREX
43
॥२०९॥
t ional
For Private & Personal Use Only
www
Jain Educa
rary.org