________________
श्रीकल्प
॥ १९८॥
यद्वत् सहस्रकरशुभ्रकरप्रदीपा, ज्योतिश्वयैः प्रसृमरैः सहिता सदैव ।
आगर्भतः सततसर्वगुणस्तथैव, ज्ञानत्रयेण सहितो जिनवर्द्धमानः ॥ ३० ॥ इत्याद्युक्त्वा सस्य, स्थानं गतवान् हरिस्तथैव विभुः । सकलज्ञातक्षत्रिय - परिकलितो निजकसौधमगात् ॥३१॥ इति श्रीवीरकुमारले खशालाकरणम् ॥१०८॥
['समणस्स णं भगवओ' इत्यादित: 'जसवईइ वा' इत्यन्तम् ]
तत्र - ( समणस्स णं भगवओ महावीरस्स पिया कासवगो तेणं) < श्रमणस्य भगवतो महावीरस्य पिता काश्यपगोत्रः > (तस्स णं तओ नामधिजा एवमा हिज्जेति ) < तस्य त्रीणि नामानि एवं कथ्यन्ते ( तं जहासिद्धत्थेइ वा सिज्जैसे इ वा जससे इ वा) तद्यथा - सिद्धार्थः १ श्रेयांसः २ यशशः ३ (समणस्स भगवओ महावोरस माया वासिट्ठीगोत्तेणं तीसे तभो नामधिना एवमाहिज्जति) श्रमणस्य भगवतो महावीरस्य माता वशिष्ठ गोत्रा तस्याः त्रीणि नामानि एवं कथ्यन्ते ( तंजहा - तिसलाइ वा विदेहदिन्ना इ वा पीइकारिणी इ वा) तद्यथा - त्रिशला १ विदेहदिन्ना २ प्रीतिकारिणी ३ > (समणस्स भगवओ महावीरस्स पितिज्जे सुपासे । जिट्ठे भाया नंदिवद्वणे भगिगो मुदंसणा ) < श्रमगस्य भगवतो महावीरस्य पितृव्यः सुपार्श्वः । वृद्धो भ्राता नन्दिवर्द्धनः । भगिनी सुदर्शना (भारिया जसोआ कोडिन्नागोत्तेणं स्त्री यशोदानाम्नी कौडिन्य गोत्रा । तच्चैवम् -> एवं बालभावाऽतिक्रमेणाऽवाप्तयौवनोऽयं 'भोगसमर्थः' इति विज्ञात भगवत्स्वरूपाभ्यां मातापितृभ्यां प्रशस्ततिथिनक्षत्र
Jain Educaternational
For Private & Personal Use Only
किरणावली टीका व्या० ५
।।१९८ ।।
alibrary.org