________________
॥१९७॥
AAAAAAAASHRESTHAAHASIRSANER
यदि वा-गर्जति शरदिन वर्षति, वर्षति वर्षासु निःस्वनो मेघः। नीचो वदति न कुरुते, न वदति साधुः करोत्येव ॥२२॥
असारस्य पदार्थस्य, प्रायेणाऽऽडम्बरो महान् । नहि स्वर्णे ध्वनिस्तादृग, यादृक् कांस्ये प्रजायते ॥२३॥ अथ विप्रोचितपीठे, वीरं संस्थाप्य पृच्छति स्म हरिः। पण्डितसंशयविषयी-भूतानपि शब्दसन्दोहान् ॥२४॥ तथाचाऽऽगमः-सको य तस्समक्खं, भगवंतं आसणे निवेसित्ता । सदस्स लक्खणं पुच्छे, वागरणं अवयवा इंदं
॥७॥ (आ. भा.)॥१८७२ । (वि. आ.) तदा-वेदास्ताँचतुरोऽपि वेत्ति गणितः, ग्रन्थप्रमाणस्मृति-स्तान्यहादशलक्षणानि निखिलाँ-स्तर्कान् ससाहित्यकान् ।
छन्दोऽलङ्कृतिनाटकान्यपि च य-स्तस्य द्विजातेः पुरो बालोऽसौ किमु वक्ष्यतीति सकलो लोकः स्थितः प्रोन्मुखः।२५। अथ वर्द्धमानकुमरो, भनक्ति पण्डितमनःस्थसन्देहान् । सर्वानपि तदनन्तर-मवदत् स पुरः सुराऽधिपतेः ॥२६॥ आबालकालादपि मामकीनान् , यान् संशयान् कोऽपि निरासयन्न।
विभेद ताँस्तानिखिलान् स एष, बालोऽपि भोः! पश्यत चित्रमेतत् । २७।। तदोवाच पुनरपि शचीपतिः--मनुष्यमा शिशुरेष विप्र!, नाऽऽशङ्कनीयो भवता स्वचित्ते ।
विश्वत्रयीनायक एष वीर-जिनेश्वरो वाङ्मयपारदृश्वा । २८॥ तदनु जैनेन्द्रं व्याकरणं जज्ञे । ततः-शास्त्राण्येतावन्त्यपि, लघुना वीरेण कथमधीतानि ।
इति जनमानससंशय-विच्छित्त्यै हरिरवोचदिदम् ॥२९॥
| ॥१९॥
Jain Education International
For Privale & Personal use only
mainelibrary.org