SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प |किरणान टीका व्या०५ ॥१९६॥ ग्यं यज्ञोपवीतल । निर्मितचावधिनैव, पाटनी BABASAHAASAAAAAAAAEX ददति महादानानि-प्रवराणि च वादयन्ति वाद्यानि । गायन्ति गायना अपि, नृत्यन्ति विचित्रपात्राणि ॥१०॥ इत्यादि महः पूर्व, प्रभुरागात्पण्डिताऽऽश्रयद्वारे। पण्डित परिच्छदोऽपि च, पीठप्रभृतीनि सजयति ॥११॥ सकलक्षितितलविमला-ऽऽखण्डलसमभूपतेर्मया पुत्रः । सविशेपवेषविधिनैव, पाठनीयो विचिन्त्यैवम् ॥१२।। मणिबन्धबाहुवक्षः-कर्णललाटेषु कर्णयोर्मूले । निर्मितचन्दनतिलकः, कुसुमिततिलकोपमः समभूत् ।।१३॥ पर्वाद्युत्सववासर-योग्यं यज्ञोपवीतपर्यन्तम् । परिहितवान् सविशेष, विप्रो विप्रोचितं वेषम् ॥१४॥ अत्राऽन्नरे-वातान्दोलितकेतुवज्जलनिधौ सक्रान्तशीतांशुवत्, प्रोदामद्विपकर्णवन्मृगदृशः स्वाभाविकस्वान्तवत् । मूषोत्तापित हेमवद् ध्रुवमपि प्रौढप्रभावात् प्रभो- राकम्पेन चलाऽचलं समभवद्देवेन्द्रसिंहासनम् ॥१५॥ अथ देवेन्द्रोऽवधिना, प्रभुसम्बन्धं विलोक्य विस्मयतः। सकलत्रिदशसमक्षं, प्रोवाचाऽमृतसदृशवाचा ॥१६! साऽऽने वन्दनमालिका समधुरीकारः सुधायाः स च ब्राहम्याः पाठविधिः स शुनिमगुणाऽऽरोपं सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं, पावित्र्यसम्पत्तये, शास्त्राऽध्यापनमहतोऽपि यदिदं, यल्लेखशालाकृते ॥१७॥ मातुः पुरो मातुलवर्णनं तत् , लङ्कानगयों लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः पुरो यद्वचसां विलासः॥१८॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥१९॥ अथ विग्रीभूयेन्द्रः, समागतस्तत्र चिन्तयामास । गाम्भीर्यमहो! बाले, यदयं ज्ञानाऽपि न ब्रूते ॥२०॥ यतः-भूतं भावि भविष्यच्च वस्तु सर्व जिनेश्वरः । अनन्तपर्यायोपेत-मावाल्यादपि वेस्यसौ ॥२१॥ ॥१९६। Jain Ed e mnational For Private & Personal use only rinelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy