SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ॥ १८९ ॥ ४८ मयीं रूप्यमय वा चन्द्रमूर्ति प्रतिष्ठाप्य अर्चित्वा च विधिना स्थापयेत् । ततः स्नातां सुवखाऽऽभरणां शिशुमातरं करद्वयधृतपुत्रां चन्द्रोदये प्रत्यक्षचन्द्रसन्मुखं नीत्वा- 'ॐ अर्ह चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधीगर्भोऽसि अस्य कुलस्य ऋद्धि वृद्धिं कुरु कुरु साहा' इत्यादि चन्द्रमन्त्रमुच्चरन् मातृपुत्रयोश्चन्द्रं दर्शयेत् । सपुत्रा माता च गुरुं प्रणमति गुरुवाऽऽशीर्वादं दत्ते । यथा "सर्वोषधी मिश्र मरीचिराजिः, सर्वाऽऽपदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥ ततः स्थापितेन्दुमूर्ति विसर्जयेत् । कदाचिद्यदि तस्यां निशि चतुर्दशी अभावास्या वा स्यात् साऽभ्रे वा व्योम्नि चन्द्रो न दृश्यते तदाऽपि तस्यामेव सन्ध्यायां चन्द्रदर्शनं कार्यम् । अपरायामपि रात्रौ चन्द्रोदये भवतु तत् ॥ अथ तस्मिन्नेव दिने प्रातः स्वर्णमयीं ताम्रमयीं वा सूर्यमूर्ति पूर्वविधिना संस्थाप्य ॐ अर्ह सूर्योऽसि दिनकरोऽसि तमोहोsसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद' । आशीर्वादश्चायम् - "सर्वसुरासुरखन्द्यः, कारयिताऽपूर्व सर्वकार्याणाम् । भूयात् त्रिजगच्चक्षु - मङ्गलदस्ते सपुत्रायाः ॥ १ ॥ मातृपुत्र सूतकभयात्तत्र नाऽऽनेयौ । ततः स्थापित सूर्यदर्शन विधिः । सम्प्रति च तत्स्थाने शिशोदर्पणदर्शनं कार्यते ॥ (छडे दिवसे धम्मजागरियं जागरिंति) धर्मेण - कुलधर्मेण लोकधर्मेण वा पष्ठयां रात्रौ जागरणं धर्मजागरिका तां < कुरुतः > | (एक्कारसमे दिवसे वहते निव्वत्तिए असुइजम्मकम्मकरणे) एकादशे दिवसे व्यतिक्रान्ते > निवर्तिते - अतिक्रान्ते अशुचीनाम् - अशौचवतां जन्मकर्मणां - नालछेदनादीनां यत् करणं तस्मिन् । ( संपत्ते बारसाहे Jain Education International For Private & Personal Use Only. ॥१४९॥ www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy