________________
श्रीकल्प
टीका व्या.५
॥१८॥
SOURCEAECE
कुण्डलक्षोमयुग्मं चोच्छी मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाढय-मुल्लोचे स्वर्णकन्दुकम् ॥१४॥ द्वात्रिंशद्रत्नरैरूप्यं-कोटिवृष्टिं विरच्य सः । बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥१५॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधार्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥१६॥ स्वाम्यङ्गुष्ठेऽमृतं न्यस्य, स्वामिजन्मोत्सव सुराः । नन्दीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथाक्रमम् ॥१७॥
क्रमस्त्वेवम्-जिनजन्मोत्सवाऽनन्तरं बहवो देवा नन्दीश्वरद्वीपे यात्रायै यान्ति । शक्रस्तु जिनगृहं । ततः पूर्वदिश्यञ्जनगिरिचैत्ये । तल्लोकपालास्तु क्रमेण चतुर्दियवर्तिषु चतुर्यु दधिमुखशिखरिचैत्येषु । शक्रवदीशानोऽपि; परमुत्तरस्यामेव । तल्लोकपाला अपि प्राग्वत् । चमरबलीन्द्रावपि क्रमेण दक्षिणपश्चिमयोर्दिश्योरित्यादि बोध्यम् ।
इति देवकृतः श्रीमहावीर जन्मोत्सवः । एवं च चातुनिकायिकाऽनेककोटाकोटि देवदेवीभिनिर्मीयमाणे जिनजन्मोत्सवे जगति यद्धेतुकं यज्जातं तदाह
(ओवयंतेहि उप्पयंतेहि य)त्ति अवपतद्भिः-अवतरद्भिः उत्पतद्भिः-ऊर्ध्व गच्छद्भिः (उम्पिजलमाणभूआ कहकहगभूआ आवि हुत्था) उप्पिश्चल:-भृशमाकुलः स इवाऽऽचरतीति क्विपि शतरिच प्राकृतत्वात् 'माण' आदेशे 'उप्पिंजलमाण' इति सिद्धम् । तद्भूना- भूतस्योपमार्थत्वाद् उत्पिञ्जलतीव । अव्यक्तवर्णों नादः तद्भुतो वाऽपि हर्षाऽट्टहासादिना 'कहकहा' रवमयीव अभवन् क्वचित उपिजलमालाभूआ पाठः तत्र-उत्पिञ्जलानां भृशमाकुलानां देवादीनां माला-श्रेणिः तां भूताप्राप्ता । क्वापि-'देवुज्जोए एगालोए लोए देवसंनिवाया उपिंजल.' इत्यादि । तत्र 'होत्थ'त्ति प्रत्येकं सम्बन्धात् ।
॥१८॥
Jain E
a
tional
For Private & Personal use only
Wavanelibrary.org