________________
श्रीकल्प
किरणावर टीका व्या०
॥१७६॥
-CARELUGREECEMGEELCANCECEMALL
आभियोगिकदेवकृतैोजनप्रमाणविमान्नरत्राऽऽयान्ति । इति दिवमारिका महोत्सवः। ततः सिंहासन शाकं, चचालाऽचलनिश्चरम् । प्रयुज्याऽथाऽवधि ज्ञात्वा, जन्माऽन्तिमजिनेशितुः॥१॥ वज्रयेकयोजनां घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा-रेणुः सर्वविमानगाः ॥२॥ शक्राऽऽदेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्स्वयम् । तेन प्रमुदिता देवा-श्चलनोपक्रमं व्युधुः ॥३॥ पालकाख्याऽमरकृतं, लक्षयोजनसंमितम् । विमानं पालकं नाम-ऽध्यारोहत् त्रिदशेश्वरः ॥४॥
पालकविमाने पुरतोऽग्रमहिषीणामष्टौ भद्रासनानि । वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि । दक्षिणतो द्वादशस'साऽभ्यन्तरपार्षदानां तावन्ति भद्रासनानि । चतुर्दशसहस्रमध्यमपार्षदानां तावन्ति भद्रासनानि । एवं पोडशसहस्रबाह्यपार्षदानामपि पोडशसहस्रभद्रासनानि । पृष्ठतः सप्ताऽनीकाधिपतीनां सप्त भद्रासनानि । चतुर्दिक्षु प्रत्येकं चतुरशीतिसहस्राऽऽत्मरक्षक देवानां चतुरशीतिसहस्रभद्रासनानि । मध्ये शाकं सिंहासनम् ।।
पुरतोऽग्रमहिष्योऽष्टौ, वामे सामानिकाः सुराः । दक्षिणे त्रिसभादेवाः, सप्ताऽनीकानि पृष्ठतः ॥५॥ अन्यैरपि धनव-वृतः सिंहासनं स्थितः । गीयमानगुणोऽचाली-दपरेऽप्यमरास्ततः॥६॥ देवेन्द्रशासनात् केचित् , केचिन्मित्राऽनुवर्तनात् । पत्नीभिः प्रेरिताः केचित् , केचिदात्मीयभावतः ॥७॥ केऽपि कौतुकतः केऽपि,विस्मयात् केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैयुताः ॥८॥ विविधैस्तूर्यनिर्घोषैः, घण्टानां क्वणितैरपि । कोलाहलेन देवानां, शब्दाऽद्वैतं तदाऽजनि ॥९॥
॥१७६॥
Jain Educa
t ional
For Privale & Personal use only
Library.org