________________
॥१७३॥
४९
वितिमिरासु - भगवज्जन्मकाले सार्वत्रिकोद्योतभावात् चन्द्रिकाया वा ध्वस्तध्वान्तासु । विशुद्धासु - उल्कापातदिग्दाहाद्यभावात् निर्मलासु । (जइएसु सव्वसउणेसु जयोऽस्ति एषु इति जयिकेषु राजादीनां जयदायिषु सर्वशकुनेषु - काकोलूकपौतक्यादिषु । यद्वा-काकानां श्रवणे द्वित्रिचतुः शब्दाः शुभावहाः । (पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवास) प्रदक्षिणवासौ अनुकूलच भगवतः प्रदक्षिणवा हित्वाद् अनुकूलम् । अथवा प्रदक्षिणे- प्रदक्षिणावर्त्तत्वात् अनुकूले सुरभिशीतत्वात् । भूमिसर्पिणि-मृदुत्वात् । चण्डवातो हि उच्चैः सर्पति । तादृशे मारुते प्रवातुमारब्धे - 'अचेतना अपि दिशः प्रसेदुर्मुदिता इव । वायवोऽपि वस्पर्शाः मन्दं मन्दं वस्तदा ॥ १ ॥ (निफन्नमेइणीयंसि कार्लस) निष्पन्ना - निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले - ऋतौ । (पमुह अपक्कीलिएसु जणवएस) प्रमुदिता:- सुभिक्षसौस्थ्यादिना प्रक्रीडिताच वसन्तोत्सवादिना क्रीडितुमारब्धाः । ततो विशेषणकर्मधारयः । जनपदेषु - जनपदवास्तव्य लोकेषु सत्सु -
I
'उद्योत त्रिजगत्यासीत्, दध्वान दिवि दुन्दुभिः । नारका अध्यमोदन्त, भूरप्युच्छ्वासमासदत् ॥ १ ॥ (पुव्वरत्तावरत्तकालसमयंसि ) < मध्यरात्रे (हत्थुत्तराहि नक्खलेण जोगमुबा गएणं) उत्तराफाल्गुनीनक्षत्रेण सह चन्द्रे योगमुपागते (आरोग्गा आरोग्गं दारयं पयाया) अरोगा - अनाबाधा माठा अरोगम् - अनाबा दारकं प्रजाता - सुषुवे । जनिः सोपसर्गत्वात् सकर्मकः ॥९६॥
इति जैनशासनसौधस्तम्भायमान - महामहोपाध्यायश्री धर्मसागर - गणिवरविरचितायां कल्पकिरणावल्यां चतुर्थ व्याख्यानं समाप्तम् ।
For Private & Personal Use Only
Jain Education International
॥१७३॥
www.jainelibrary.org