________________
श्रीकल्प
किरणावली टीका व्या०४
॥१६२॥
हा ! धिर धिय दैवं प्रति किं चक्रे ! तेन सततकक्रेण । यन्मन्मनोरथतरुमलादुन्मूलादुन्मरितोऽनेन ॥४॥ आदत्ते दत्त्वाऽपि च लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुद्दालितमधमेनाऽनेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याऽप्याकृष्टं भोजनभाजनमलज्जेन ॥६॥ यहा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि भवतः किम् ? । यस्मादेवं कुर्वन्नुचिताऽनुचितं न चिन्तयसि ॥ ७ ॥ अथ किं कुर्वे ? क्य च वा, गच्छामि ? वदामि कस्य वा पुरतः ? । दुर्दैवतेन दग्धा, जग्घा मुग्धाऽधमेन पुनः ॥८॥ किं राज्येनाऽप्यमुना ?, किं वा कृत्रिमसुखैर्विषयजन्यैः ? । किं वा दुकूलशय्याशयनोद्भवशर्महर्येण ? ॥९॥ गनवृषभादिस्वप्नैः सूचितमुचितं चित्रजगदय॑म् । त्रिभुवनजनाऽसपत्नं विना जनाऽऽनन्दिसुतरत्नम् । युग्मम् ॥ १० ॥ तदरे ! दैवत ! किमुपस्थितोऽसि ? दुःखाऽग्निगहनदहनाय । भवतोऽपराधविधुरां कि मां प्रति धरसि वैरिधुराम् ॥११॥ धिक् संसारमसारं धिक पर्यन्ताऽसुखाऽभिमुख विषयान् । मधुलिप्तखड्गधारालेहनतुलितानहो ! ललितान् ॥१२॥ यद्वा मयका किश्चित्तथाविधं दुकृतं कृतं कर्म । पूर्वभवे यत ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥१३॥
"पसुपक्खिमाणुसाणं बाले, जो वि हु विओयए पावो । सो अणवच्चो जायइ, अह जायइ तो विवजिजा॥१४॥ तत्पड्डका मया किं ? त्यक्ता वा त्याजिता अधमबुद्धया। लघुवत्सानां मात्रा, समं वियोगः कृतः किंवा ? ॥१५॥ तेषां दुग्धाऽपायोऽकारि मया कारितोऽथवा लोके । किंवा सबालोन्दुर-बिलानि जलपूरितानि मया ? ॥१६॥ १ पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः। सोऽनपत्यो जायते अथ जायते ततो विपद्येत ॥१४॥
॥१६॥
an Educa
tional
For Private & Personal use only
antainelibrary.org.