________________
श्रीकल्प
५. किरणावर
टीका व्या.१
॥१४८॥
जायते यस्य हरणं, निजशयनोपानहां पुनः स्वप्ने । तस्य म्रियते दयिता, निविडा स्वशरीरपीडाऽपि ॥१३॥ यो मानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्रं, तदर्धमाप्नोत्यसौ क्रमशः ॥१४॥ द्वारपरिघस्य शयनप्रेखोलनपादुकानिकेतानाम् । भञ्जनमपि यः पश्यति तस्याऽपि कलत्रनाशः स्यात् ॥१५॥ कमलाऽऽकररत्नाऽऽकर-जलसम्पूर्णाऽऽपगा: सुहृन्मरणम् । यः पश्यति लभतेऽसा वनिमित्तं वित्तमतिविपुलम् ॥१६॥ अतितप्तं पानीयं, सगोमयं गडूलमौषधेन युतम् । यः पिबति सोऽपि, नियतं म्रियतेऽतिसाररोगेण ॥१७॥ देवस्य प्रतिमाया, यात्रास्नपनोपहारपूजादीन् । यो विदधाति स्वप्ने, तस्य भवेत् सर्वतो वृद्धिः ॥१८॥ वप्ने हृदयसरस्यां, यस्य प्रादुर्भवन्ति पद्मानि । कुष्टविनष्टशरीरो, यमवसतिं याति स त्वरितम् ॥१९॥ आज्यं प्राज्यं स्वप्ने यो, विन्दति वीक्ष्यते यशस्तस्य । तस्याऽभ्यवहरणं वा, क्षीराऽन्नेनैव सह शस्तम् ॥२०॥ हसने शोचनमचिरात , प्रवर्तने नर्तनेऽपि वधवन्धौ । पठने कलहश्च नणा-मेतत् प्राज्ञेन विज्ञेयम् ॥२१॥ कृष्णं कृत्स्नमशस्तं, मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं, त्यक्त्वा कसिलवणादीन् ॥२२॥ दृष्टाः स्वप्ना ये स्वं, प्रति तेऽशुभाः शुभा नणां स्वस्य । ये प्रत्यपरं तस्य, ज्ञेयास्ते स्वस्य नो किश्चित् ॥२३॥ दुःस्वप्ने देवगुरून् , पूजयति करोति शक्तितश्च तपः । सततं धर्मरतानां, दुःस्वप्नो भवति सुस्वप्नः ॥२४॥
तथा आगमोऽपि यथा-'इत्थी वा पुरिसे वा सुविणंते एग महं खीरकुंभं दधिकुंभं घयकुंभ मधुकुंभ वा पासमाणे पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडितमिति अप्पाणं मन्नइ, तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अंतं करेइ'।
BOUCGACASREAM
R
ECE
॥१४८
Sain E
-nternational
For Private & Personal use only
rary.org