SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ॥१४७॥ NAGAR मालास्वप्नोऽतिदृष्टश्च तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः स्वप्नः सर्वो निरर्थकः ॥२१॥ (विवेकविलासे) धर्मरतः समधातुर्यः, स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थित-मर्थ स्वप्नः प्रसाधयति ॥१॥ न श्राव्यः कुस्वप्नो, गुर्वादे स्तदितरः पुनः श्राव्यः । योग्यश्राव्याऽभावे, गोरपि कर्णे प्रविश्य वदेत् ॥२॥ इष्टं दृष्ट्वा स्वप्नं, न सुप्यते नाऽऽप्यते फलं तस्य । नेया निशाऽपि मुधिया, जिनराजस्तवनसंस्तवतः ॥३॥ स्वप्नमनिष्टं दृष्ट्वा, सुप्यात पुनरपि निशामवाप्याऽपि । नैतत्कथ्यः कथमपि, केषाश्चित् फलति न स यस्मात् ॥४॥ पूर्वमनिष्टं दृष्ट्वा, स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् , द्रष्टव्यं तद्वदिष्टेऽपि ॥५॥ स्वप्ने मानवमृगपति-तुरङ्गमातङ्गवृषभसुरभिभिः । युक्तं रथमारूढो. यो गच्छति भूपतिः स भवेत् ॥६॥ उपहारो हयवारण-यानाऽऽसनसदननिवसनादीनाम् । नृपशङ्का शोककरो, बन्धुविरोधाऽर्थहानिकरः ॥७॥ यः सूर्याचन्द्रमसो-बिम्बं ग्रसते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं ससुवर्णा साऽर्णवां नियतम् ॥८॥ हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्यकुप्यानाम् । धनमानम्लानिकर, दारुणमरणावहं बहुशः ॥९॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । भुङ्क्ते भूमिमखिलां स जातिहीनोऽपि धर्मधनः ॥१०॥ निजभाया हरणे, वसुनाशः परिभवे च सङ्कलेशः । गोत्रस्त्रीणां तु नृणां, जाये ते बन्धुवधबन्धौ ॥११॥ शुभ्रेण दक्षिणस्यां यः, फणिना दश्यते निजभुजायाम् । आसादयति सहस्र, कनकस्य स पञ्चरात्रेण ॥१२॥ READIRECORAKAR ॥१४७॥ Jain Education international For Privale & Personal use only wwaijatnelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy