________________
श्रीकल्प
किरणावली टीका व्या०४
॥१४६॥
निशम्य हृष्टाः तुष्टाः यावत् हर्षितहृदयाः तान् स्वप्नान् चित्ते धरन्ति > (ओगिणिहत्ता ईह अणुपविसति) <धृत्वा ईहाम् अनुप्रविशन्ति > (अणुपविसित्ता) < अनुप्रविश्य > (अन्नमन्नेण सद्धिं संचालति) त्ति । अन्योऽन्येन सह सञ्चालयन्ति-संवादयन्ति पर्यालोचयन्ति इत्यर्थः। [क्वचित-'संलावेंति' त्ति पाठः । तत्राऽपि स एवाऽर्थः] (संचालेत्ता ते सुमिणाणं) < पर्यालोच्य तेषां स्वप्नानां > (लद्धट्ठा गहिअट्ठा पुच्छियट्ठा विणिच्छियट्ठा) इत्यादि । लब्धार्थाःस्वतः। गृहीताऽर्थाः-पराऽभिप्रायाग्रहणतः । पृष्टाऽर्थाः-संशये सति परस्परतः । तत एव विनिश्चिताऽर्थाः-ऐदंपर्यालोचनात् (अहिगयट्ठा) अत एव चाऽभिगतार्थाः-अवधारितार्थाः। (सिद्धत्थस्स रणो पुरओ सुमिणसस्थाइं उच्चारेमाणा उच्चारेमाणा) सिद्धार्थस्य राज्ञः पुरः स्वप्नशास्त्राणि उच्चरन्तः उच्चरन्तः (सिद्धत्थं खत्तियं एवं ययासी) सिद्धार्थक्षत्रियम् एवं वदन्ति स्म ॥७२॥ तत्र स्वप्नशास्त्राण्येवं यथा
'अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूत-श्चिन्तासन्ततिसम्भवः ॥१०॥ देवताधुपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वप्नः स्यानवधा नृणाम् ॥१७॥ प्रकारैरादिमैः पइभि-रशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः (युग्मं) ॥१८॥ रात्रेश्चतुषु यामेषु दृष्टः स्वप्नः फलप्रदः । मासैादशभिः षड्भि-त्रिभिरेकेन च क्रमात् ॥१९॥ निशान्त्यघटिकायुग्मे दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः सद्यः, फलति निश्चलम् ॥२०॥
RECTEGOLORCAMERA
॥१४६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org