________________
श्रीकल्प-
किरणावली टीका व्या०३
॥१४२॥
चितानि च इति । (मंगलाई वत्थाई पवरोइं परिहिया) मङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि प्रवराणि-प्रधानानि परिहिता:-निवसिताः । (अप्पमहग्घाभरणालंकियसरोरा) अल्पानि स्तोकानि महार्धानि-बहुमूल्यानि यानि आभरणानि तैः अलङ्कृतं शरीरं येषां (सिद्धत्थय हरियालियाकयमंगलमुद्धाणा) सिद्धार्थाश्च-सर्षपाः हरितालिका च-दूर्वा कृता मङ्गलनिमित्तं मूर्धनि-शिरसि यैः (सएहिं सरहिं गेहेहिंतो निग्गच्छंति) स्वकेभ्यः-आत्मीयेभ्य इत्यर्थः गृहेभ्यः निर्गच्छन्ति > (निग्गच्छित्ता खत्तियकुंडग्गाम नयरं मज्झमज्झेणं जेणेव सिद्धस्थस्स रणो भवणवडिंसयपडिदुवारे तेणेव उवागच्छंति) <निर्गत्य क्षत्रियकुण्डग्रामं नगरं मध्यंमध्येन यत्रैव सिद्धार्थराजस्य > भवनवरेषु-हर्येषु अवतंसक इव-शेखरक इव भवनवराऽवतंसकः तस्य प्रतिद्वारं-मूलद्वारं समीपद्वारं < तत्रैव उपागच्छन्ति > (उवागच्छित्ता भवणवरडिंसगपडिदुवारे) < उपागत्य भवनवराऽवतंसकप्रत्तिद्वारे> तत्र (एगयओ मिलंति) त्ति समुदायीभूय सम्मतीभवन्ति-सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्ति इत्यर्थः। यत:-'यत्र सेवेऽपि नेतारः सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति तद्वृन्दमवसीदति" ॥१॥ इति दृशन्तीभूता च राज्ञो मन्त्रिपरीक्षितशय्यकशाय्यबलगकपञ्चशती तद्यथा-काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवावृत्तिनिमित्तं कस्यचिद् राज्ञः पुरो ययौ । राज्ञा मन्त्रिणा च परीक्षानिमित्तम् एकैच शय्या शयनाय प्रेषिता, ते च अहमिन्द्रत्वमापना नि:स्वामिकाः परस्परं विवदमाना:-'सर्वेषामविशेषेण परिभोगो भवतु' इत्याशयेन यथाऽपितामेव शय्यामन्तराले विमुच्य तदभिमुखपादाः शयितवन्तः प्रातश्च रहः सङ्केतितराजपुरुष राजे यथावद्वयतिकरे निवेदिते-कथमसम्बद्धा
-AAAAAAAE
॥१४२॥
Jain E
For Private & Personal use only
Himandlibrary.org