SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणा टीका व्या ॥१४॥ AAAAAAAAABAR [खिप्पामेव भो !' इत्यादितः 'पडिसणेतिति यावत] तत्र- (खिप्पामेव भो देवाणुप्पिया!) <शीघ्रमेव भो देवानुप्रियाः !> (अटुंगमहानिमित्त) अष्टाऽङ्गम्अष्टाऽवयव । यथा-- ___ "अङ्गं स्वप्नं स्वरं चेव भौमं व्यञ्जन-लक्षणे । उत्पातमन्तरिक्षं च निमित्तं स्मृतमष्टधा" ॥१॥ तत्र-'पुंसां दक्षिणाऽङ्गे 3 स्त्रीणां वामाऽङ्गे स्फुरणं रम्यम्' इत्यादि अङ्गविद्या शसप्नानामुत्तममध्यमाऽधमविचारः स्वप्नविद्या २। गृहगोधा-कृक लास-काक-विनायक-घूक-दुर्गा-भैरवी-शृगालादीनां सरपरिज्ञानं स्वरविद्या ३। भौम-भूमिकम्पादिविज्ञानं भौमविद्या ।। व्यञ्जनं-मपीतिलकादीनि ५। लक्षणं-करचरणरेखादिसामुद्रिकोक्तं ६। उत्पातम्-उल्कापातादि:-- "उल्कापाते प्रजापीडा निर्धाते भूपतिक्षयः । अनावृष्टिश्च दिग्दाहे दुर्भिक्षं पांसुवर्षणे" ॥१॥ इत्यादि परिज्ञानं ७। अन्तरिक्षं-ग्रहाणामुदयाऽस्तादिपरिज्ञानं ८ इत्याद्यष्टभेदं यन्महानिमित्तं-परीक्षाऽर्थप्रतिपत्तिकारणव्युत्पादकशास्त्रविशेषः । (सुत्तत्थधारए) तस्य यौ सूत्राथौं धारयन्ति पठन्ति वा तयोर्वा पारगा ये ते तथा, अनेन 'धारए पाढए पारए' इति पाठत्रयं व्याख्यातं । (विविहसत्थकुसले सुविणलक्खणपादए सद्दावेह) < विविधशास्त्रेषु कुशलान् स्वप्नलक्षण. पाठकान् आकारयत> (तए णं ते कोडुबियपुरिसा सिद्धत्थेण रण्णा एवं वुत्ता समाणा) < तत:-ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् उक्ताः सन्तः> (हतुट्ट जाव हियया) < हृष्टाः तुष्टा यावत् हर्पितहृदयाः> यावत् करणा'हडतुडचित्तमाणंदिआ' इत्यादि दृश्यं । (करयल जाव.) < करतलाभ्यां> यावत् करणात्-'परिग्गहियं दसनहं ६ ॥१४ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy