________________
श्रीकल्प
किरणावल टीका व्या०३
॥१२०॥
गाम्भीय धैर्यवयं शमिदमियमिनां भाग्यसौभाग्यसंविः दाक्षिण्यान्यग्यदाक्ष्यं जगदुपकृतधीः पुण्यकारुण्यमिष्टम् । स्वाम्यं स्वाम्याऽभिरामं सकलचतुरतेत्यादि भासदगुणाली, रत्नश्रेणी च दीपा भवदसमसुते रत्नराशिर(ह्य)माना ॥१३॥ [ 'सिहिं च' इत्यादितः 'सिहिं' इति पर्यन्तं]
तत्र-(सिहिं) इति 'गयवसह' गाथाया अन्ते (सिहिं च) इति यत्पदं तस्येदं ग्रहणवाक्यम् । अत एव 'तत' | इति नोक्तं । विशेष्यपदं तु स्वप्नवर्णकान्ते (सिहिं) इति शिखिनं च चतुर्दशे स्वप्ने (सा) सा-त्रिशला (पिच्छद) पश्यति । (विउलुज्जल-पिंगल-महुघय-परिसिच्चमाण-निदधूम-धगधगाइय-जलंत-जालुजलाभिराम) त्ति विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिपिच्यमाना निर्धमा धगधगायमाना-धगधगिति कुर्वन्त्यो ज्वलन्त्यः-दीप्यमाना या ज्वाला-अचिपः ताभिरुज्ज्वलम् । अत एवाऽभिरामं । (तरतमजोगेहिं) तरतमयोगो विद्यते येषु ते तरतमयोगा 'अभ्रादित्त्वाद् अ-प्रत्ययः' । एका ज्वाला उच्चा अन्या तु उच्चतरा अपरा च उच्चतमा इति (तैः) तरतमयोगयुक्तैः (जालपयरेहिं) ज्वालानां प्रकरै:-कलापैः (अण्णुण्णमिव अणुप्पइण्णं) अन्योऽन्यम् अनुप्रकीर्णमिव-मिश्रितमिव स्पर्द्धया तदीया ज्वाला अन्योऽन्यमनुप्रविशन्ति इव इत्यर्थः, (जालुज्जलणग) ज्वालानाम् उत्-ऊर्ध्व ज्वलनं ज्वालोज्ज्वलनं तदेव ज्वालोज्ज्वलनकम् आर्षवाद विभक्तिलोपे तेन (अंबरं व कत्थइ पयंत) त्ति क्वचित्तदेशे अम्बरम-आकाशं पचन्तमिवक्वचिद् अभ्रंलिहाभिः ज्वालाभिः आकाशमिव पक्तुमुद्यतमितिभावः। (अइवेगचंचलं) अतिवेगचञ्चलम् ॥४६॥
DASHASAX
॥१२॥
in Eder
ational
For Pawale & Personal use only
Malibrary.org