________________
॥११९॥
AAAAAAE
नित्यमुद्योतयुक्तं । (सेय) श्वेतं (सेयप्पभ) श्वेतप्रभ (सुरवराभिराम) सुरवरान् अभिरमयतीति । यद्वा-सुराणां वरा अभि-समन्तात् रामा:-स्त्रियो यस्मिन् (सातोवभोग) सातस्य-सातवेदनीयस्य कर्मणः उपभोगो यत्र पञ्चधा विषयसुखसम्पत्तेः (विमाणवरपुंडरी) विमानवरेषु पुण्डरीकमिव श्रेष्ठत्वात् ॥४४
मार्तण्डादतिभास्वरं मणिचितं सौम्यं क्वणत् किङ्किणी;-क्वाणोच्चध्वजसुन्दरं खगमनं मुक्ताफलै राजितम् ।
मन्दारप्रवरप्रसूनसुरभीभूतं विमानं यथा, नेत्राऽऽनन्दितदेशनादिषु सुतः स्थानेषु हर्षप्रदः॥१२॥ [ 'तओ पुणो पुलग' इत्यादितो 'रयणनिकररासिं' इति यावत् ]
तत्र-(तओ पुणो) ततः पुनः (सा) सा-त्रिशला त्रयोदशे स्वप्ने (रयणणिकररासिं) रत्ननिकरराशिं (पिच्छइ) पश्यति । (पुलग-वेरिं-दणील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्लपवालफलिह-सोगंधियहंसगभ-अंजण-चंदप्पह-वररयणेहिं) त्ति पुलकादयो रत्नविशेषाः प्रसिद्धाः। नवरं 'वेर'त्ति वज्रम् । इन्द्रनीलं 'सासग' त्ति सस्यक < कर्केतनं लोहिताक्षं मरकतं मसारगल्लं प्रवालं स्फटिकं सौगन्धिकं हंसगर्भम् अञ्जनं> चन्द्रप्रभ:चन्द्रकान्तः < वररत्नैः> (महीअलपइटिअं) महीतलप्रतिष्ठितमिति राशिविशेषणं । पुलकादिवररत्नैः (गगणमंडलंत) गगनमण्डलान्तं यावत् (प्रभासयंत) प्रकाशयन्तं (तुंगं) तुङ्गम्-उच्च । तुगत्वमनियत मित्याह-(मेरुगिरि सणिकास) मेरुगिरेः संनिकाशं-तुल्यं । (रयणणिकररासिं) रत्ननिकराणां राशि:-उच्छ्रितः समूहविशेषः तम् ॥४५॥
PAAROGRECORMA
Jain Educ
a
tional
For Privale & Personal use only
wimminelibrary.org