________________
CCI
श्रीकल्प
किरणावर
| टीका
॥११६॥
व्या०
1-
यस्य ['च उगुणपडमाणजलसंचयं] इति पाठस्तु-कस्माच्चतुर्गुणत्वम् ? इति अनपेक्ष्यैवाऽऽधिक्यमात्रस्यैव विवक्षितत्वात सुगम एव] (चवलचंचलुचायप्पमाणकल्लोललोलततोय') त्ति चपलेभ्योऽपि चञ्चल: उच्चाऽऽत्मप्रमाणैश्चअत्युनतस्वमानः कल्लोलैः-महत्तरङ्गैः लोलद-एकीभूय विरलीभवत् तोयं-पानीयं यस्य स तथा तं । (पडुपवणाहयचलिअचवलपागडतरंगरंगतभंगखोखुम्भमाणसोभतनिम्मल उक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं) त्ति पटु पवनाऽऽहताः सन्तः चलिताः-प्रवृत्ताः, अत एव चपलाः प्रकटाश्च-स्पटाः तरङ्गाः-सामान्येन कल्लोला: तथा रङ्गन्तः-इतस्ततः प्रेक्षन्तो; भगा:-'भङ्गस्तरङ्गभेदे च' इति वचनात् तरङ्गविशेषा एवं तथा 'ख'खुब्भमाण' ति अतिक्षुभ्यन्तः; शोभमाना निर्मला:-स्वच्छाः उत्कटाश्च-दुस्सहाः उर्मयः-विच्छित्तिमन्तः कल्लोलाः । ततः तरङ्गाऽन्त-भङ्गाऽन्त-उHन्तपदानां द्वन्द्वः। तैः सह-साई यः सम्बन्धः तेन पूर्व धावमान:-तीराऽभिमुख सर्पन् अपनिवृतश्च भासुरतर:-अतिदीप्तिमान् अपनिवृत्तश्चाऽभिरामः-दीप्तिमानेव । यद्वा-धावमानोऽपनिवृत्तश्च सन् भासुरतर:-- अतिदीप्तिमान् । अत एव अभि-समन्तात् रामः-रमणीयः, पश्यतां दृक्पथमागतोऽत्यन्तं प्रीतिदायीत्यर्थः। एतदर्थाऽनुपातिनी श्रीजयसुन्दरसूरिकृताऽऽर्या यथा
कल्लोललोलसलिलं धावदपसरद् बहुमिरम्यतटम् । नद्यागमसावत्त क्षीराब्धिं सैक्षत गंभीरम् ॥१॥ __यत्तु केचित्-'भयङ्करे तु डमरमाभीलं भासुरं तथा' इति शेषवचनात् धावमानो भामुरतर:-अतिभयङ्करः अपनिवृत्तश्च अभिरामः हृद्य इति व्याख्यान्ति तन्न ख्यातिमत् । यतः-तीर्थकुन्मातरः क्रूराऽऽत्मानमपि सिंहं सौम्याकारमेव स्वप्ने
ARREARRRRRRRRRRRRRICRORE
0%
A
Sain Educa
t ional
For Private & Personal use only
D
brary.org