________________
॥११३॥
२५
मयमित्यर्थः । 'जच्च' त्ति जात्यकाञ्चनेन उत्- प्राबल्येन ज्वलद्रूपं यस्य तमिति व्याख्यानयन्ति । तत्र - उक्तव्याख्यानानुसारेण विसंवादगन्धस्याऽप्यभावात् कथं तदनुरोधेन कल्पनया व्याख्यानं युक्तम् ? इति बोध्यम् ] (निम्मलजल पुण्णमुत्तमं ) निर्मलजलपूर्णम् उत्तमं दिवमाणसोह) दीप्यमानशोभं (कमलकलावपरिरायमाणं) कमलकलापेन परि-समन्तात् राजमानं । (पडिपुण्णय सव्वमंगलभेअ समागम) त्ति प्रतिपूर्णकानां सर्वमङ्गलभेदानां समागमः --मेलापकः स्थानमित्यर्थः । [ क्वचिच्च पड़िवुज्झत सच्च मंगलालय समागमं' इति पाठः तत्र - प्रतिबुध्यमानानि - जागरूकाणि यानि सर्वमङ्गलानि तेषाम् आलय:- निवासभूतः समागमः- सम्मुखाssगमनं यस्य तं ] ( पवररयणपरायंत कमलठिअं) प्रवररत्नैः प्रकर्षेण राजति कमले स्थितं । यद्वा-प्रवरा रचना यस्य एवंविधः परागः - पुष्परजः अन्तः - गर्भे यस्य एतादृशे कमले स्थितं । ( नयणभूणकर) नयनानामानन्दकत्वात् भूषणकरं । ( प्रभास माणं) प्रभासमानं - स्वयं दीप्यमानं प्रभया असमानं वा । अत एव (सव्वओ चैव दीवयंत) सर्वा दिशो दीपयन्तं । (सोमलच्छीनिभेलणं) सौम्यलक्ष्म्याः - प्रशस्त सम्पदः 'निभेलणं' - ति देश्यत्वाद् गृहं । (सव्वपावपरिवज्जिअं) सर्वैः पापैः - अशिवैः परिवर्जितम् । अत एव (सुभ) शुभं (भासुरं) भासुरं दीप्तं (सिरिवरं) श्रिपा त्रिवर्गसम्पत्त्या वरं श्रेष्ठं तदागमसूचकत्वात् । (सव्वोउअसुरभिकुसुम आसत्तमल्लदानं) सर्वजानां सुरभिकुसुमानाम् आस- कण्ठस्थं माल्यदाम-प्रशस्तमाला यस्मिन् तम् । अत्र 'दाम' शब्दः परोऽपि प्रशंसाऽर्थः । यथा- 'वनान्तकपोलपाली' त्या 'अन्त- पाली' शब्दौ ॥४१॥
Jain Educational
For Private & Personal Use Only
॥११३॥
Mbrary.org