________________
श्रीकल्प
किरणावलं
टीका 3 व्या०३
तमःपटलस्याऽभावः अतमःपटलं तेन परिस्फुट-सर्वदिक्षु प्रकटं । यद्वा-तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटः तं । (चेव तेअसा पजलंतरूवं) त्ति 'चेव' शब्दस्य-अवधारणाऽर्थस्य व्यवहितस्याऽपि सम्बन्धात् तेजसैव प्रज्वलद्रप प्रकृत्या हि सूर्यमण्डलपतिबादरपृथ्वीकायिकाः शीतला एव; अथवा 'चेब' ति समुच्चयाऽर्थः। (रत्तासोगपगासकिंसुअसुअमुहगुंजद्वरागसरिस) रक्ताऽशोकश्च प्रकाश किंशुकश्च-पुष्पितपलाश: शुकमुखं च गुञ्जार्द्धश्च तेषां रागेण सदृशम् ; आरक्तत्वात् । | (कमलवणालंकरणं) कमलवनम् अलङ्करोति-विकाशश्रिया विभूषयतीति कमलवनाऽलङ्करणः तं । (अंकणं जोइसस्स) ज्योतिष-ज्योतिश्चक्रं तस्य अङ्कन-मेषादिराशिसङ्क्रमणादिना लक्षणज्ञापकं । (अंबरतलपई) अम्बरतलप्रदीपं । (हिमपडलगलग्गह) हिमपटलं गले गृह्णाति इति हिमपटलगलग्रहः-अवश्यायराशेः गले हस्तयिता इत्यर्थः ततः तं । (गहगणोरूनायगं) ग्रहगणस्य उरू:-महान् नायकः तं । (रत्तिविणासं) रात्रिविनाशमिति स्पष्टं । (उदयत्थमणेसु मुहत्तसुहदसणं) उदयास्तमयोः मुहूर्त सुखदर्शनम् । अन्यदा तु-(दुनिरिक्खरूवं) दुनिरीक्ष्य रूपमिति व्यक्तं । (रत्तिमुद्धंतदुप्पयारप्पमद्दणं) ति रात्रौ 'मकारस्य अलाक्षणिकत्वात् ' उद्वावत-उच्छंखलान् दुष्प्रचारान्-चौरपारदारिकादीन् दुष्टप्रचारान् प्रमईयति यः तं । (सीअवेगमहणं) शीतवेगमर्थन-जाड्याऽतिशयविध्वंसक। (मेरुगिरिसययपरिअट्टयं) मेरुगिरि सततं-निरन्तरं परिवर्तयति-प्रदक्षिणयति इति मेरुगिरिसततपरिवर्तकः तं । (विशालं) विशाल-विपुलमण्डलं (रस्मि सहस्सपयलिअदित्तसोहं) रश्मिसहस्रेण-हेतुभूतेन प्रगलिता प्रदलिता वा दीप्तानामपि-चन्द्रादीनां शोभा यस्माद् येन वा स तथा तम् । अत्र रश्मिसहस्राऽभिधानं रूढयाऽवगन्तव्यम् । अन्यथाऽऽधिक्यमपि रविरश्मीनां लोकशास्त्रेषूच्यते । यथा
ABOECARECRecy
॥११०॥
Jain E
t
ernational
For Private & Personal use only
Beibrary.org