________________
श्रीकल्प
किरणावली टीका व्या०२
॥१०६॥
CHECECRECTORAGRECREGARAc
(लीलावायकयपक्खएण) ति लीलया न पुनः स्वेदापनोदाथ स्वेदस्यैवाऽभावात् वातार्थ-वातोत्क्षेपार्थ कृतो यः पक्षकः- तालवृन्तं तेनोपलक्षिताम् इति अत्राऽप्यध्याहार्य । यद्वा-लीलायै शोभार्थं परैः सह स्पर्द्धया यो वादः तत्र कृत:-विहितो यः पक्षः प्रतिज्ञापरिग्रहः क प्रत्यये तेन । (सुविसदकसिणघणसण्हलंबतकेसहत्थं) ति सुविशदः स्पष्टः-न पुनर्जटाजूटवदविवृतः कृष्णः-श्यामः घन:-अविरलः सूक्ष्मः-तलिनः लम्बमानः केशहस्तः-केशपाशो यस्याः ताम् ।
लक्ष्मीदर्शनतश्चिरं निरुपमामादौ सुराज्यश्रियं भोक्ता ज्ञानरमामवाप्य सुतरां तत्तीर्थलक्ष्मी ततः । नूतामिन्दिवरैः सदाऽनुभविता निःसीमभाग्यश्रियं पारं यास्यति चाऽविनश्वरतरां मोक्षश्रियं वः सुतः ॥४॥
इति श्री जैनशासनसौधस्तम्भायमान-महामहोपाध्यायश्री धर्मसागरगणिवर विरचितायां कल्पकिरणावल्यां द्वितीयं व्याख्यानं समाप्तम् ।।
THERECAAAAAAA
॥१०६॥
Jain Education International
For Privale & Personal use only
www.ainelibrary.org