________________
॥९९॥
स्निग्धा छविर्यस्य स तथा तं । तथा (थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंग) ति स्थिरं-दृढम् । अत एवसुबद्धं तथा मांसलम् । अत एव-उपचितं-पुष्टं लष्ट-प्रधानं सुविभक्त-यथावत्संनिविष्टाऽवयवम् एवंविधं सुन्दरम् अङ्गदेहं यस्य तथा तं । (पिच्छइ) प्रेक्षते । (घणवलढउक्किहतुप्पग्गतिखसिंग) ति घने-निचिते वृत्ते-वर्तुले लष्टोत्कृष्टे-लष्टादप्युत्कृष्टे अतिश्रेष्ठे म्रक्षिताग्रे तीक्ष्णे शङ्गे यस्य स तथा तं[ क्वचित्तु-(तुप्पपुष्फग्गतिक्खसिंग) इति पाठः तत्र तुप्पे-म्रक्षिते पुष्पं-गोरोचनासूनकं विन्दुरूपं तदग्रे-उपरिभागे ययोः ईदृशे तीक्ष्णे शृङ्गे यस्य स तथा तं] (दंत) दान्तम्-अकरं (सिवं) शिवम्-उपद्रवोपशामकं (समाणसोभंतसुद्धदंतं) ति समाना:-तुल्यप्रमाणाः । अत एव-शोभमानाः शुद्धा:-श्वेताः दोषरहिता वा दन्ता यस्य स तथा तं । (वसह) वृषभं (अमिअगुणमंगलमुहं) ति अमिता-मानरहिता गुणा येभ्यः एवंविधानि यानि मङ्गलानि तेषां मुखं इव मुख-द्वारम् ॥३४॥
उद्धां भवपङ्कमग्नमखिलं विश्वं भविष्यत्यलं दुर्वाह्यां विषमेऽपि सुव्रतधुरं मोक्ता हि नो सर्वथा । सप्तक्षेत्रमुवित्तबीजवपने सानिध्यदाता सतां भावी च स्तवनीयतारगमनः पुत्रो वृष-स्वप्नतः ॥२॥ ['तओ पुणो हार' इत्यादितः 'चारुजीहं' इति पर्यन्तम् ]
(तओ पुणो नहयलाओ ओवयमाणं) तत्र-ततः पुनः नभस्तलादवपतन्तम्-अवतरन्तं तदनु (नियमवयणमहवयंत) निजकवदनम् अतिपतन्तं प्रविशन्तं (सा सीहं पिच्छइ) सा-त्रिशला सिंह पश्यति । कीदृशं पुनः? (हारनिकरखीरसागरससंककिरणदगरयर ययमहासेल) ['हारे'त्यादि व्याख्या प्राग्वत् ] पुञ्जीकृतहारः क्षीरसागरः शशाङ्क
ARCRECCACAREE
॥९९
San
a
tional
For Private & Personal use only
wwindindimrary.org