________________
॥९७॥
[ 'तए णं' इत्यादित: ' वरोरुं' इति पर्यन्तम् ]
तत्र - (तए णं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रियाणी (तप्परमार ) तत्प्रथमतया (इभ) गजं स्वप्ने पश्यति । अत्र च प्रथमम् इमदर्शनं सामान्यवृत्तिमाश्रित्योक्तम् । अन्यथा ऋषभमाता प्रथमं वृषभं वीरजननी तु सिंहमपश्यद् इति वृद्धाः । ( चउद्दतं त्ति चतुर्दन्तं - चतुर्दन्तमुशलं [ (तओ य चउद्दतं ) इति क्वचित् तत्र - ततश्च इति योजने 'तर णं' इत्यनेन पुनरुक्तता स्याद् अतः ततौजसो - महाबला चत्वारो दन्ता यस्य इति व्याख्येयम् ] (ऊसिअ ) उच्छितः तथा (गलिअविपुलजलहर ) ति गलितविपुलजलधरः - निर्जलविस्तीर्णमेघः (हारनिकर-खीरसायरससंककिरण- दगरय-रययमहासेल) हारनिकरः- पुञ्जीकृतहारः, क्षीरसागरः - प्रतीतः, शशाङ्ककिरणाः- चन्द्रमरीचयः, दकरजांसि - शीकराः, रजतमहाशैलः- वैताढ्यः एतेषां द्वन्द्वे तद्वत् (पंडुतरं) पण्डुरतर:- अतिशयेन धवलः । तत उच्छ्रितवासौ गलितविपुलजलघर - हारनिकर-क्षीरसागर - शशाङ्ककिरण-दकरजो-रजतमहाशैलपण्डरतरश्च इति कर्मधारयः । यद्वा(तसि० ) मुदं श्रितो मुच्छ्रितः क्षुधादिवाधाऽनाबाधितत्वेन शुभचेष्टः क्रोधानाविष्टो वा । तथा च ततौजाचतुर्दन्तश्रासौ गलितविपुलजलधर - हारनिकर - क्षीरसागर - शशाङ्क किरण- दकरजो-रजतमहाशैलपण्डरतरश्च इति विशेषण कर्मधारयः (ऊस) ति सविभक्तिकपाठे तु उच्छ्रितम् - उच्चम् इति भिन्नविशेषणं । ( समागम ) ति समागता (महुअर) मधुकरा :- भ्रमराः यत्र तथाविधं यत् (सुगंधदाणवासिअ ) सुगन्धदानं-मदवारि तेन वासितं ( कपोलमूलं) कपोलयोर्मूलं यस्य स तथा तं । (देवरायकुंजरवरप्यमाणं) ति देवराजः शक्रः तस्य कुञ्जरः- ऐरावणः तद्वद्वरं - शास्त्रोक्तं
क. फि. ९
२५
Jain Educatiu mamational
For Private & Personal Use Only
॥९७॥
maal Haltibrary.org