SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ RE श्रीकल्प किरणावल टीका व्शा०२ ॥१६॥ त्यादि-गङ्गातटवालुकाभिः अवदालेन-पादादिन्यासे अधोगमनेन सदृशके । अथवा प्राकृतत्वाद विशेषणस्य परनिपाते अवदालेन-पादादिविन्यासे अधोगमनेन गङ्गातटवालुकाभिः सदृशके इत्यर्थः । (ओअविअ) त्ति परिकर्मितं यत् (खोमिअदुगुल्लपट्टपडिच्छन्ने) क्षौमम्-अतसीमयं दुकूलं-वस्त्रं तस्य युगलाऽपेक्षया यः पट्टः-एकशाटकः तेन प्रतिच्छन्ने-आच्छादिते [(पडिच्छए) त्ति पाठे तु सप्रतिच्छद-आच्छादनं यस्येत्यादि] (सुविरइअरयत्ताणे) सुष्ठु विरचित रजवाणम्-आच्छादनविशेषोऽपरिभोगाऽवस्थायां यत्र (रत्तंसुअसंवुडे) रक्तांशुकसंवृते- मशकगृहाऽभिधानरक्तवस्त्रावृते (सुरम्मे) रमणीये (आईणगरूअरनवणीयतूलतुल्लफासे) [इत्यादि०] आजिनक-स्वभावादतिसुकुमालः चर्ममयो वस्त्रविशेषः रूतं-| कर्पासपक्ष्म बूरः-वनस्पतिविशेषः नवनीतं-म्रक्षणं तूलम्-अर्कतूलम् एभिः तुल्यः स्पों यस्य तत्तथा तस्मिन् (सुगंधवरकुसुमचुण्णसयणोवयारकलिए) [इत्यादि सुगन्धाभ्यां वरकुसुमचूर्णाभ्यां-सत्कुसुमजातिवासयोगाभ्यां यः शयनस्य-शय्यायाः उपचार:-पूजा तेन कलिते (पुव्वरत्तावरत्तकालसमयंसि) [इत्यादि] मध्यरात्रे (सुत्तजागरा) < सुप्तजागरा (ओहीरमाणी ओहीरमाणी) पुनः पुनः ईषन्निद्रां गच्छन्ती (इमे एयारूवे) इमान् एतत्स्वरूपान् (उराले जाव चउद्दसमहासुमिणे) उदारान यावत् चतुर्दशमहास्वप्नान् (पासित्ताणं पडिबुद्धा) दृष्ट्वा जागरिता । (तं जहा-) तद्यथा गय-वसह-सीह-मभिसेअ-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाणभवण-रयणुच्चय-सिहिं च ॥३२॥ PRASHASHISHASAHESAR ॥९६॥ For Private & Personal Use Only JainEducaINI brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy