SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणा टीका व्या० ॥८ ॥ Ram-RRERe%AINA भवे प्राणतकल्पे पुष्पोत्तराऽवतंसकविमाने विंशतिसागरोपमस्थितिकः देवः। ततः च्युतः सप्तविंशतितमे भवे 'ब्राह्मणकुण्डग्रामे' नगरे 'ऋषभद तस्य' ब्राह्मणस्य 'देवानन्दायाः' पत्न्याः कुक्षौ समुत्पन्नः। इत्येवं सप्तविंशतिभवाऽपेक्षया तृतीये मरीचिसम्बन्धिनि भवे स्वदेशनाप्रतिबुद्धः 'कपिल:' साधुपार्श्व प्रवजनाय द्विरुक्तोऽपि-'किं भवत्समीपे सर्वथा धर्मो नाऽस्त्येव ?' इति प्रतिवचःपुरस्सरं साधुपार्श्वम् अगच्छन्-'पापात्मा मदुचितोऽयं भवतु मनिश्रितः' इति विचिन्त्य-'कविला ! इत्थंपि इहयंपि' त्ति प्रागुक्तरीत्या उत्सूत्रमिश्रितवचसा कोटाकोटिसागरसंसारसत्ताको मृत्वा ब्रह्मलोके सुरः। ततः च्युतः 'परिव्राजक' इत्यादिना क्रमेण यावत् किञ्चित् साऽवशेषनीचैर्गोत्रसत्ताको दशमदेवलोकाद् 'देवानन्दायाः कुक्षौ अवातरद् इति ॥ (जं णं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा) < यदहन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा (अंतकुलेसु वा अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्तकुलेषु वा (तुच्छदरिदभिक्खागकिविणमाहणकुलेसु वा) तुच्छ-दरिद्र-भिक्षाक-कृपण-ब्राह्मणकुलेषु वा (आयाइंसु वा) जज्ञिरे (आयाइंति वा) जायन्ते (आयाइस्संति वा) जनिष्यन्ते । (कुञ्छिसि गम्भत्ताए) कुक्षौ गर्भतया (वक्कमिंसु वा) आगताः (वकमंति वा) आगच्छन्ति (वक्कमिस्संति वा) आगमिष्यन्ति वा > (नो चेव णं जोणीजम्मणनिक्खमणेणं) नैव योन्या जन्माऽर्थ निष्क्रमणेन (निक्खमिंसु वा) [इत्यादि] (निक्खमंति वा निक्खमिस्संति वा) निरक्रामन् निष्क्रामन्ति निष्क्रमिष्यन्ति वा ॥१९॥ ['अयं च णं' इत्यादितो 'गम्भत्ताए वक्रते' इति यावत् सुगमम् ] TECRECRECRECRAKARMA ॥८॥ Jan Ede For Private & Personal use only Lilibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy