________________
॥७९॥
षोडशे भवे 'विश्वभूति' नामा 'विशाखभूतेः' प्रियाया 'धारिण्या:' कुक्षौ कोटिवर्षाऽऽयुः क्षत्रियोऽभूत् । स च 'सम्भूत' मुनिपादान्ते व्रतमादाय वर्षसहस्रं दुस्तपं तपस्तपन् मासोपवासपारणके मथुरायां प्रविष्टः । तत्र च परिणयनार्थमागतेन 'विशाखनन्दि' नाम्ना पितृव्यभ्रात्रा तपःकृशाङ्गयष्टिम् एकया गया भुवि पातितमालोक्य 'कपित्थपातनं तव क्य?' इत्यादि इसितः सन् क्रुधा तां गां शृङ्गयोः गृहीत्वा गगनेऽभ्रमयत्-'मदीयेन अनेन उग्रतपसा भवाऽन्तरे भूयिष्ठवीर्यो भूयासम्' इति निदानं च चक्रे । ततो मृत्वा 'सप्तदशे' भवे महाशुक्रे उत्कृष्टस्थितिः सुरः। ततः च्युतः अष्टादशे भवे पोतनपुरे 'प्रजापते' राज्ञो 'मृगावत्याः' कुक्षौ चतुरशीतिवर्षलक्षाऽऽयुः 'त्रिपृष्ठ' नामा वासुदेवः। ततो मृत्वा एकोनविंशतितमे भवे सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिः नारकः । तत उदृत्य विंशतितमे भवे सिंहः। ततो मृत्वा एकविंशतितमे भवे चतुर्थपृथिव्यां नारकः। तत उवृत्त्य तियड्मनुष्यादि भूयो भवान भ्रान्त्वा द्वाविंशतितमे भवे मनुजत्वमवाप्य उपार्जितशुभकर्मा त्रयोविंशतितमे भवे 'मूकायां' राजधान्यां 'धनञ्जय' राज्ञो 'धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वाऽऽयुः चक्रवर्ती। स च पोट्टिलाऽऽचार्यसमीपे कोटिवर्षप्रवज्यापर्यायः चतुर्विशतितमे भवे महाशुक्रनाम्नि विमाने सप्तदशसागरोपमस्थितिकः अमरः। ततः च्युतः पञ्चविंशतितमे भवे इहैव भरतक्षेत्रे छत्रियां नगर्या 'जितशत्रु' नृपतेः 'भद्रा देव्याः कुक्षौ पञ्चविंशतिवर्षलक्षाऽऽयुः 'नन्दनो' नामा पुत्रः। सच पोट्टिलाऽऽचार्यपायें राज्यं सन्त्यज्य गृहीततपस्यः अनवरतं मासोपवासैः विंशत्या स्थानैः तीर्थकरनामगोत्रं निकाचयित्वा प्रव्रज्यापर्यायं चैकं वर्षलक्षं परिपाल्य मासिकया संलेखनया आलोचित्तप्रतिक्रान्नो मृत्वा षड्विंशतितमे
Cex
JainEducat
For Private & Personal use only