________________
श्रीकल्प
किरणावरू टीका व्या०
||७८॥
ब्रह्मलोके देवः सञ्जातः । तत्र-'मया प्राग्भवे किं कृतम् ?' इत्यवधि प्रयुज्य स्वतीर्थमोहादागत्य च पश्चवर्ण
पवर्ण- मण्डलावस्थोऽन्तर्हितः षष्ठितन्त्रादिकं कापिले यशास्त्रं स्वशिष्यवर्गस्य पुरः कथितवान । मरीचिस्तु ब्रह्मलोकारच्युतः पश्चमे भवे कोल्लाकसंनिवेशे अशीतिलक्षपूर्वाऽऽयुः 'कौशिक'नामा ब्राह्मणः। स च द्रव्योपार्जनपरायणो विषयाऽऽसक्तो हिंसादिषु निःशूको भूयांसं कालं गृहे स्थित्वा प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च-'पद्मानन्दकाव्याऽनुसारेण' षष्ठे भवे सौधर्मे सुरः। तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यते इति न भवाऽऽधिक्यशङ्काऽपि । श्री वीरचरित्राऽनुसारेण तु तिर्यगादिभवानुभूतिलक्षणे संसारे प्रभूतकालं परिभ्रम्य षष्ठे भवे स्थूणायां नगयां द्वासप्ततिलक्षपूर्वाऽऽयुः 'पुष्पमित्र' नामा द्विजः प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च सप्तमे भवे सौधर्मकल्पे मध्यस्थितिः सुरः। ततः च्युतोऽष्टमे भवे चैत्यसन्निवेशे चतुःषष्ठिलक्षपूर्वाऽऽयुः 'अग्निद्योतो' नामा ब्राह्मणः । प्रान्ते च त्रिदण्डी भूत्वा, मृत्वा च नवमे भवे द्वितीये कल्पे मध्यस्थितिकोऽमरः । ततः च्युतो दशमे भवे मन्दरसन्निवेशे षट्पञ्चाशल्लक्षपूर्वाऽऽयुः 'अग्निभूति' नामा ब्राह्मणः। अन्ते त्रिदण्डी भूत्वा मृत्वा च एकादशे भवे सनत्कुमारकल्पे मध्यस्थितिक: सुरः । ततः च्युतो द्वादशे भवे श्वेतव्यां नगया चतुश्चत्वारिंशल्लक्षपूर्वाऽऽयुः 'भारद्वाज' नामा ब्राह्मणः। अन्ते त्रिदण्डिकतया मृत्वा त्रयोदशे भवे माहेन्द्रकल्पे मध्यस्थितिकः सुरः। ततः च्युतः कियन्तं कालं संसारे संमृत्य चतुर्दशे भवे राजगृहे चतुस्त्रिशल्लक्षपूर्वाऽऽयुः 'स्थावरो' नामा ब्राह्मणः। अन्ते त्रिदण्डी भूत्वा मृत्वा च पश्चदशे भवे ब्रह्मलोके मध्यस्थितिकः अमरः । ततः च्युतो भूयःकालं संसारे भ्रान्त्वा
HereCRORESCRECRe%AE%
A
AMROSE%
R
||७८॥
%
Jain Educ
a
tional
For Privale & Personal Use Only
1 library.org